________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
नेति, बोधस्यानिश्चयत्वविरोधात् । न चास्पष्टतया नेति, तस्या | स्पष्टताऽभ्युपगमादिति ॥
यचोक्तम्- 'तच यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति, ५ तत्रैव प्रामाण्यमात्मसात्कुरुते' एतदप्ययुक्तम्, तस्य निरंशत्वाभ्युपगमात्; अन्यथा परसिद्धान्तापत्तिः । व्यावृत्तयोऽंशा इति चेत्, न तासां परमार्थतस्तदव्यतिरिक्तत्वेन तन्मात्ररूपत्वात्, तस्यैव त्रैलोक्यव्यावृत्येकस्वभावत्वादिति । कथं च निश्चयस्य विकल्पात्मकत्वात् तत्त्वतो निर्विषयत्वात् तद्विषयता युक्ता येनोच्यते - १० 'यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति' इति । स ततो भवतीति ( खो० व्या० )
केवलायास्तदाकारोत्पत्तेरिति प्रक्रमः, नेति न निश्चयरूपता । कुत इत्याह-बोधस्यानिश्चयत्वविरोधात् । बोधो निश्वयोऽवगम इति तुल्यार्थाः । न चेत्यादि । न च अस्पष्टतया कारणेन नेति न निश्चयरूपता, केवलायास्तदाकारोत्पत्ते- १५ रिति प्रक्रमः । कुत इत्याह-तस्याः - तदाकारोत्पत्तेः स्पष्टताऽभ्युपगमादिति ॥
यच्चोक्तं पूर्वपक्षग्रन्थ' एव - 'तच्च यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति, तत्रैव प्रामाण्यमात्मसात्कुरुते', एतदप्ययुक्तम् । कुत इत्याह--तस्य, प्रक्रमात् प्रमेयवस्तुनः निरंशत्वाभ्युपगमात्, अन्यथाएवमनभ्युपगमे परसिद्धान्ता पत्तिः तत्सांशतापत्त्या इत्यर्थः । व्यावृत्तयः १० अंशा इति चेत्, तथाहि त्रैलोक्यव्यावृत्तं तदिति, एतदाशङ्कयाह - न, तासां - व्यावृत्तीनां परमार्थतस्तदव्यतिरिक्तत्वेन - वस्त्वव्यतिरिक्तत्वेन हेतुना तन्मात्ररूपत्वात् वस्तुमात्ररूपत्वात् । एतदेव स्पष्टयन्नाह - तस्यैव - वस्तुनस्त्रैलोक्यव्यावृत्तिरेवैकः स्वभावो यस्य तत् तथेति विग्रहः, तद्भावस्तस्मादिति । दोषान्तरमाह कथं वेत्यादिना । कथं च निश्चयस्य विकल्पात्मकत्वात् २५ कारणात् तत्वतः - परमार्थेन निर्विषयत्वात् तद्विषयता - वस्तुविषयता युक्ता येनोच्यते- 'यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति' इति नह्येतदतद्विषयत्वे चारु । स तत इत्यादि । सः - निश्चयस्ततः - वस्तुनो भवतीति कृत्वा ( विवरणम् )
अधिकारः ]
२०३
मिति । अन्यथा-यदि ततस्तद्बोधोपपत्तिर्नाभ्युपगम्यते ततस्तदुत्तरक्षणवद् - बाह्या- ३० लम्बनपदार्थाग्रेतनक्षणवत् ततः - आलम्बनाद् भावे विज्ञानस्याबोधरूपतैव स्यात् ॥
१ 'तत्स्पष्ट०' इति क - पाठः । २२०० तमे पृष्ठे । ३ 'च' इत्यधिको ग-पाठः । ४-६ १०० तमे पुष्ठे ।