________________
अनेकान्तजय पताकाख्यं प्रकरणम्
(मूलम् )
नन्तराव्यतिरेकात् । नाप्यध्यवसिततद्भावता, अतवाभेन तत्परिकछेदायोगात्, तत्वतस्तदनुपपत्तेः । नापि ध्वनियोगः, तत्तादात्म्या५ द्ययोगतस्तदसिद्धेः, तद्युक्तस्यापि तदाकारोत्पत्तिप्रधानत्वादिति । न च सैव केवलाऽनिश्चयः, स्वालम्बनपरिच्छेदात् । न च न सोऽपि, तस्वतः तत्स्वभावतया ततस्तद्बोधोपपत्तेः । न च मूककल्पत्वात् ( स्वो० व्या० )
ततः - वासनात उत्पत्तेः कारणात् । उत्पत्तिश्च तत्तत्समनन्तराव्यतिरेकात् १० तस्याः- वासनायास्तत्समनन्तराव्यतिरेकात्- निर्विकल्प कसमनन्तराव्यतिरेकात् । समनन्तराच्चाविकल्पकजन्मेति भावना |
२०२
[ तृतीयः
नाप्यध्यवसिततद्भावता प्रत्ययदार्व्यम् । कुत इत्याह- अतदाभेनअवस्त्वाकारेण ज्ञानेन तत्परिच्छेदायोगात् वस्तुपरिच्छेदायोगात् । अयोगश्च तत्त्वतः - परमार्थतः तदनुपपत्तेः -अध्यवसिततद्भावतानुपपत्तेः । नातदाभं तत्१५ परिच्छेद कम्, न चातो नाध्यवसिततद्भावतेति भावनीयम् ।
नापि ध्वनियोगः प्रत्ययदार्व्यम् । कुत इत्याह-तत्तादात्म्याद्ययोगतः तस्य - प्रत्ययस्य तेन ध्वनिना तादात्माद्ययोगतः तादात्म्यम् - एकत्वम्, 'आदि'शब्दात् तदुत्पत्तिग्रहः, तदसिद्धेः - ध्वनियोगासिद्धेः । तथा तद्युक्तस्यापि - ध्वनियुक्तस्यापि प्रत्ययस्येति प्रक्रमः, तदाकारोत्पत्तिप्रधानत्वात् विषयाकारो२० त्पत्तिप्रधानत्वादिति । न चेत्यादि । न च सैव - तदाकारोत्पत्तिः केवला - ध्वनियोगरहिता अनिश्चयः - अपरिच्छेदः । कुत इत्याह-स्वालम्बनपरिच्छेदात्स्वविषयपरिच्छेदात्, केवलयाऽपि । न च न सोऽपि स्वालम्बनपरिच्छेदस्तत्वतःपरमार्थेन । कुत इत्याह-तत्स्वभावतया - स्वालम्बनपरिच्छेदस्वभावतया, ततःस्वालम्बनात् तद्बोधोपपत्तेः - विवक्षितालम्बनबोधोपपत्तेः, अन्यथा तदुत्तरक्षणवत् २५ ततो भावेऽप्यबोधरूपतैवेति हृदयम् । न चेत्यादि । न च मूककल्पत्वात्, (विवरणम् )
(१०) निर्विकल्पक समनन्तराव्यतिरेकादिति । न हि बौद्धमते ज्ञानक्षणभिन्ना काचिद् वासनाऽस्ति |
( १९-२० ) विषयाकारोत्पत्तिप्रधानत्वादिति । अनुभूयते हि ध्वनियुक्तो बोधः ३० सविकल्पक ज्ञानलक्षणो घटाद्याकारः । न चाबाधितेऽनुभवे कश्चिद् विरोधः ॥ (२४-२५) अन्यथा तदुत्तरक्षणवत् ततो भावेऽप्यबोधरूपतैवेति हृदय१ 'चाऽतोऽन्याध्यवसित०' इति क - पाठः । २ 'स्वावलम्बन०' इति कृ-पाठः । ३ 'ध्वनितो बोधः' इति ख- पाठः ।
-