________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२०१
(मूलम्)
कारोत्पत्तिव्यतिरेकेण । अस्त्वेवं ततः को दोष इति चेत्, नासौ न प्रत्यक्षेऽपि कथमनिश्वायकं तत् ? वस्तुमात्रप्रतिभासनादिति चेत्, अवस्तुप्रतिभासी तर्हि निश्चयः। न, तत्रैव दृढः प्रत्यय इति चेत्, ५ कथं तदाकारशून्यस्तत्रेति ? । किञ्च किं पुनरस्य दाय किं निर्विकल्पकसमनन्तरत्वं किं वा वासनाजन्म उताध्यवसिततद्भावता, आहोविद् ध्वनियोगः? न तावनिर्विकल्पकसमनन्तरत्वम्, तदपरनिर्विकल्पकेन व्यभिचारात् , निर्विकल्पकसमनन्तरानिर्विकल्पकोत्पत्तेः। नापि वासनाजन्म, निर्विकल्पकस्यापि तत उत्पत्तेः, तत्तत्सम-१०
(स्वो० व्या०) नायं-यथोदिताध्यवसायः तदाकारोत्पत्तिव्यतिरेकेण-स्वालम्बनाकारोत्पत्तिव्यतिरेकेण । अस्त्वेवं-भवतु स्वालम्बनाकारोत्पत्तिरेव निश्चयः ततः को दोषः। इति चेत्, एतदाशङ्कयाह-नासौ-स्वालम्बनाकारोत्पत्तिः न प्रत्यक्षेऽपि । किं तर्हि ? अस्त्येव । अतः कथमनिश्वायकं तत्-प्रत्यक्षम् ? भवदभिप्रेतनिश्चयलक्षणो-१५ पपत्तेनिश्चायकमेवेत्यर्थः । वस्तुमात्रप्रतिभासनात् अनिश्चायकं तत् । इति चेत्, एतदाशङ्कयाह-अवस्तुप्रतिभासी तर्हि निश्चयः ततोऽनिश्चय इति गर्भः । न अवस्तुप्रतिभासी, किन्तु तत्रैव-वस्तुनि दृढः प्रत्ययः-निश्चयः । इति चेत्, एतदाशङ्कयाह-कथं तदाकारशून्यः वस्त्वाकारशून्यस्तन्मात्रप्रतिभासनेन तत्रेति-वस्तुनीति ?। अभ्युच्चयमाह किश्वेत्यादिना । 'किं पुनरस्य-प्रत्ययस्य २० दाय किं निर्विकल्पकसमनन्तरत्वम् ? । निर्विकल्पकं समनन्तरो यस्येति विग्रहस्तद्भावो निर्विकल्पकसमनन्तरत्वं तत् । किं वा वासनाजन्म? वासनातो जन्म तत्, उताध्यवसिततद्भावता? अध्यवसितः परिच्छिन्नः तद्भावः-वस्तुभावो येनेति विग्रहः, तद्भावोऽध्यवसिततद्भावता । आहोस्विद् ध्वनियोगःशब्दसम्बन्धः प्रत्ययदायमिति ? । एवं विकल्पचतुष्टयमुपन्यस्याह-न तावन्नि- २५ विकल्पकसमनन्तरत्वं प्रत्ययदायम् । कुत इत्याह-तदपरनिर्विकल्पकेन व्यभिचारात्, तस्मात्-अधिकृतप्रत्ययादपरं च तन्निर्विकल्पकं च तेनानैकान्तिकत्वात् । एतत्प्रकटनायैवाह-निर्विकल्पकसमनन्तरात् सकाशात् प्रबन्धेन निर्विकल्पकोत्पत्तेः।
नापि वासनाजन्म प्रत्ययदायम् । कुत इत्याह-निर्विकल्पकस्यापि ३० १ 'किञ्च पुनरस्य' इति क-पाठः। २ 'आहोश्वित् ध्वनिः' इति उ-पाठः ।
अनेकान्त० २६