________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) आह च न्यायवादी-"न प्रत्यक्षं कस्यचिनिश्चायकं तद् यमपि गृह्णाति तं न निश्चयेन", किं तर्हि ? तत्प्रतिभासेन । तच यत्रांशे ५ पाश्चात्यं निश्चयं जनयितुं शक्नोति तत्रैव प्रामाण्यमात्मसात्कुरुते, यत्र तु भ्रान्तिकारणसद्भावादशक्तं तत्र प्रमाणान्तरं व्याप्रियते, समारोपव्यवच्छेदार्थमिति भ्रान्तिव्युदासाय प्रमाणान्तरप्रवृत्तिः इति ॥
अनोच्यते यदुक्तम्-"न प्रत्यक्षं कस्यचिन्निश्चायकम्" इत्यत्र १० कोऽयं निश्चयो नाम?। स्वालम्बनाध्यवसाय एवेति चेत्, नायं तदा.
(स्वो० व्या०) पराभिप्रायमाह-प्रत्यक्षस्य-निर्विकल्पकस्य अनिश्चयरूपत्वात् कारणात् चिन्तितमेवैतत् ॥
यदुक्तं भवता न चैतदपूर्वमित्युपदर्शयन्नाह-आह च न्यायवादी-धर्म५ कीर्तिवार्तिके । 'किमाह इत्याह-न प्रत्यक्षं कस्यचित्-पदार्थस्य 'निश्चायकं तद् यमपि पदार्थं गृह्णाति, तं न निश्चयेन-एवमेतदित्येवंरूपेण, किं तर्हि ? तत्प्रतिभासेन आदर्शवत् गृह्यमाणाकारेण तच्च-एवम्भूतं प्रत्यक्षं यत्रांशे-वस्तुगते पाश्चात्यं निश्चयं जनयितुं शक्नोति नीलादौ तत्रैव अंशे प्रामाण्यमात्मसात्कुरुते नीलादौ । यत्र तु अंशेऽनित्यादौ भ्रान्तिकारणसद्भावात् २० कारणात् अशक्तं पाश्चात्यं निश्चयं जनयितुम् , तत्रांशे प्रमाणान्तरं व्याप्रि
यते अनुमानम् । किमर्थमित्याह-समारोपव्यवच्छेदार्थं-परिकल्पितसमारोपव्यवच्छेदार्थम् इति-एवं भ्रान्तिब्युदासाय-समारोपव्युदासाय प्रमाणान्तरप्रवृत्तिः -अनुमानप्रवृत्तिः॥
इति-एवं पूर्वपक्षमाशङ्कयाह-अन्रोच्यते-यदुक्तमित्यादि । यदुक्तमादौ "न २५ प्रत्यक्षं कस्यचिनिश्चायकम्" इत्यत्र व्यतिकरे कोऽयं निश्चयो नाम ? | स्वालम्बनाध्यवसायः-स्वविषयपरिच्छेद एव । इति चेत्, एतदाशङ्क्याह
(विवरणम्) निर्विकल्पकेन हि प्रत्यक्षेण निरंशैकस्वभावं वस्तु व्यवच्छिन्नम् । अतो नास्त्येवाधिक प्रमेयं यत्रानुमान प्रवर्तिष्यते ॥
१ "किमित्याह' इति क-पाठः। २ 'निश्चायक तथमपि' इति ङ-पाठः। ३ प्रत्यक्षमिति । ४ 'तत्त्वैवम्भूतं' इति क-पाठः। ५ अस्मिन्नेव पृष्ठे ।