________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ___ १९९
(मूलम्) प्रसर एव, तभेदनिवन्धनाऽधिकृतवस्तुवैचित्र्यानुपपत्तेरिति ॥
किञ्च निर्विकल्पकेनापि प्रत्यक्षेणैकस्वभावे वस्तुनि परिच्छिन्ने कथं नानेकप्रमाणवादहानिरिति चिन्त्यम् । प्रत्यक्षस्यानिश्चयरूपत्वात् । चिन्तितमेवैतत्॥
(स्वो० व्या०) त्वादिति । एकान्तेत्यादि । एकान्तकस्वभाववस्तुवादिनस्तु-बौद्धादेः एष दोष:-अनन्तानां तदविकलात्मग्राहकज्ञानाभावलक्षणः अनिवारितप्रसर एव । कथमित्याह-तद्भेदनिबन्धना-अनन्तज्ञानभेदनिबन्धना, अधिकृतवस्तुवैचि-१० त्र्यानुपपत्तेः । उक्तवदधिकृतवस्तुवैचित्र्यमेवात्र कारणमिति ॥ __दूषणान्तरमाह किश्चेत्यादिना । किञ्च निर्विकल्पकेनापि प्रत्यक्षेण भवदभिमतेन एकखभावे-एकान्तैकखभावे वस्तुनि भवदभिमते परिच्छिन्ने सति कथं नानेकप्रमाणवादहानिरिति चिन्त्यम् । प्रमेयान्तराभावेन प्रमाणान्तराभावात् हानिरेवेत्यर्थः ॥
(विवरणम् ) पेक्षयेत्यादेस्तथात्वविरोध इतिपर्यन्तस्यैवमक्षरयोजना-'ऋजुपालिका'तीरादौ क्षेत्रे दुःषमसुषमान्ते च काले वर्द्धमानादिज्ञान्यपेक्षया अविकलात्मप्राहकज्ञानाभिव्यअकात्मकत्वेनैवोपलक्षितस्य संतोऽस्य वस्तुन एकत्र-ऋषभादिज्ञाने उपयोगो वर्तत इति कृत्वा वर्द्धमानादिज्ञानस्य ऋषभादिज्ञानरूपतया भावे तथात्वविरोधस्तत्त्व-२० ज्ञान्यपेक्षया तत्र तत्र तदा तदाऽविकलात्मग्राहकज्ञानेत्यादिवाक्योक्तार्थविरोधः। अयमत्र भावः-यदि यदेतद् युगादिदेवज्ञानं तदेव वर्द्धमानज्ञानं स्यात् तदा ऋषभज्ञाने एष्यत्काले क्षेत्रे भेदे च वस्तु महावीरज्ञानजनकतया न प्रतिभासेत, महावीरज्ञानस्य ऋषभज्ञानभिन्नखभावस्या भावात् , प्रतिभासते च तत् तथा । अतः कथञ्चिद् भेद एव नाभिसिद्धार्थपार्थिवनन्दनज्ञानयोः । न चैवमन्यो- ३५ न्यमसर्वज्ञता सर्वस्योभाभ्यामपि ज्ञानात्, परमन्यजीवद्रव्यरूपेण सता ऋषभेण ज्ञातं वस्तु अन्यजीवद्रव्यस्वभावेन च महावीरेण, एवमन्यक्षेत्रगतेन नाभिसूनुना अन्यक्षेत्राश्रितेन चरमतीर्थपतिना, एवं कालेऽपि, एवं नाभिसूनुत्वादिपर्यायपर्यापन्नेन सता ऋषभेण वस्तु व्यज्ञायि सिद्धार्थसूनुत्वादिपर्यायोपगतेन च महावीरेणेति ॥
(१४-१५) प्रमेयान्तराभावेन प्रमाणान्तराभावात् हानिरेवेत्यर्थ इति । १ 'खतोऽस्य' इति क-पाठः। २ भन्यो न सर्वज्ञता' इति क-पाठः ।