________________
१९८
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
- (मूलम्) विशेषासिद्धेः, ज्ञानिनोऽन्यत्वात् अधिकृतवस्तुनश्च विचित्रत्वात्,
तत्तज्ज्ञान्यपेक्षया तत्र तत्र तदा तदाऽविकलात्मग्राहकज्ञाना५भिव्यञ्जकत्वेनैकत्र कायोपयोगित्वादिति । न चैवमपरस्थापि तभावापत्तिः, अधिकृतवस्तुनस्तथात्वविरोधादिति सूक्ष्मधिया भावनीयम् । एकान्तकस्वभाववस्तुवादिनस्त्वेष दोषोऽनिवारत
(स्वो० व्या०) . जातम्" इत्यादि, असर्वज्ञता वा सर्वेषामन्योन्यमधिकृतवस्तुनोऽनुत्पत्तितस्तदन३. धिगमादिति पराभिप्रायः । एतदाशयाह-नेत्यादि, न-नैतदेवं यदभ्यध्यायि परेण । कुत इत्याह-हेत्वविशेषासिद्धेः । कथमसिद्धिरित्याह-ज्ञानिनोऽन्यत्वात्वर्द्धमानादेः । द्वयमिह ज्ञानहेतुः-जीवोऽधिकृतवस्तु च । न चैतदप्येकरूपमेव इत्याह-अधिकृतवस्तुनश्च अनेकखभावतया तथानियतस्य विचित्रत्वात् । ततः किमित्याह-तत्तज्ज्ञान्यपेक्षया-ऋषभ-वर्द्धमानादिज्ञान्यपेक्षया तत्र १५तत्र-'सिद्धार्थ'वन-'ऋजुपालिका'तीरादौ क्षेत्रे तदा तदा-सुषमदुःषमादुःषमसुषमान्तादौ काले अविकलात्मग्राहकज्ञानाभिव्यञ्जकात्मकत्वेन एवम्भूतेनात्मना एकत्र-ऋषभादिज्ञाने कात्योपयोगित्वात्-सामस्त्येनोपयोगित्वादिति । न चेत्यादि । न च एवम्-उक्तेन प्रकारेण-अपरस्यापिवर्द्धमानादिज्ञानस्य तद्भावापत्तिा-ऋषभादिज्ञानत्वापत्तिः। कुत इत्याह२० अधिकृतवस्तुनोऽनेकस्वभावतया तथानियतस्योक्तवद् विचित्रस्य तथात्ववि
रोधात्-तत्तज्ज्ञान्यपेक्षयेत्यादित्वविरोधात् । तथाहि-'ऋजुपालिका'तीरादौ दुःषमसुषमान्ते च वर्द्धमानादिज्ञान्यपेक्षया अविकलात्मग्राहकज्ञानाभिव्यञ्जकात्मकत्वेनैव एकत्र ऋषभादिज्ञानेऽस्य कार्योपयोग इति वर्द्धमानादिज्ञानाभावे तथात्वविरोधः । एवमन्यापेक्षयाऽप्यतिसूक्ष्मधिया भावनीयम् एतत् , अतिगहन
(विवरणम्) (९) असर्वज्ञता वा सर्वेषामन्योन्यमिति । अन्योन्यं-परस्परं सर्वेषां-वर्द्धमानादीनामसर्वज्ञता वा स्यात् । कुत इत्याह-(९-१०) अधिकृतवस्तुनोऽनुत्पत्तितस्तदनधिगमादिति । अधिकृतवस्तुन एकत्र सर्वज्ञज्ञाने लब्धव्यापारात् सकाशादनुत्पत्तितः कारणात् सर्वज्ञज्ञानानां तदनधिगमात्–सर्वैरधिकृतवस्तुनोऽपरिच्छेदात् ।। ३० (२१-२४) 'ऋजुपालिक'तीरादौ दुःषमसुषमान्ते च वर्द्धमानादिज्ञान्य
१ 'मानादीनांमसर्वज्ञता वा स्यात्' इति ख-पाठः। २ 'सर्वज्ञत्वात्' कुत इति क-पाठः । ३ 'ज्ञानापेक्षया' इति च-पाठः ।