________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१९७ (मूलम्) तज्ज्ञान-क्षयोपशमानां तथाखभावत्वादित्युक्तप्रायम् , केवलिनां तु तथानिश्चयः प्रमाणान्तराभावश्चेति न कश्चिद् दोषः । आह-एवमपि अनेकखभावतया ततस्तथानियतात् कथमनन्तानां केवलिनां तद- ५ विकलात्मग्राहकज्ञानभावः, एकत्र कात्योपयोगित्वेन तत्तजननखभावत्वात् , अपरस्यापि तद्भावापत्तेहेत्वविशेषादिति, न, हेत्व
(स्वो० व्या०) छद्मस्थज्ञानस्येत्थमप्रवृत्तेः कारणात् । अप्रवृत्तिश्च ज्ञेय-तज्ज्ञान-क्षयोपशमानां त्रयाणामपि तथावभावत्वात्-चित्रतया असर्वधर्मवत्तया निश्चय- १० निबन्धनस्वभावत्वादित्युक्तप्रायं-प्रायेणोक्तम् । केवलिनां तु-क्षीणसकलावरणानां तथानिश्चयः-सकलधर्मवत्तया निश्चयः । प्रमाणान्तराभावश्च-केवलिनामनुमानाद्यभावश्च इति न कश्चिद् दोषः। आह-एवमपि-केवलिनां तु तथानिश्वयेऽपि सति अनेकस्वभावतया ततः-वस्तुनः तथानियतात्-समग्रानेकखभावतया नियतात्, एकखभावत्वविकल्पादित्यर्थः, कथमनन्तानां प्रमा- १५ तृणां केवलिनां-वृषभादीनां तेदविकलात्मग्राहकज्ञानभावः, तस्यअनेकस्वभावतया तथानियतस्य वस्तुनः अविकलो य आत्मा तद्राहकज्ञानोत्पादः ततः कथम् ? नैवेत्यर्थः । कथं नेत्याह-एकत्रेत्यादि । एकत्र-ऋषभादिज्ञाने कायोपयोगित्वेन हेतुना तत्तजननस्वभावत्वात्-अधिकृतवस्तुन ऋषभादिज्ञानजननस्वभावत्वात् , नान्यथा ततस्तथा तदुत्पाद इति भावनीयम् । २० यदि नामैवं ततः किमित्याह-अपरस्यापि-वर्द्धमानादिज्ञानस्य तद्भावापत्तेः-ऋषभादिज्ञानापत्तेः । कथमित्याह-हेत्वविशेषादिति । ऋषभादिज्ञानजननस्वभावं ह्यधिकृतं वस्तु तद्धेतुस्ततस्तस्यापि तद्वत् तद्भावापत्तिः, अतो न ततोऽनन्तानां तदविकलात्मग्राहकज्ञानभाव इति । उक्तं च-"यतः स्वभावतो
(विवरणम् ) (२३) ततस्तस्यापि तद्वत् तद्भावापत्तिरिति । ततः कृत्स्नैकवस्तुजन्यत्वात् हेतोस्तस्यापि बर्द्धमानादिज्ञानस्य तद्वत्-वृषभादिज्ञानवत् । किमित्याह-तद्भावापत्तिः-ऋषभादिज्ञानत्वापत्तिः ।
१ स्वादित्युक्तं, केवलिना' इति क-पाठः। २ 'कालयेऽपि योगित्वेऽपि तत्तजनन.' इति कपाठः । ३ 'निश्चयं' इत्यधिकः क-पाठः । ४ 'केवलिनामृषभादीनां' इति क-पाठः । ५ 'तदविकला- . स्मकग्राहक०' इति घ-पाठः । ६ ४९ तमे पृष्टे । ७ कृत्सैक.' इति क-पाठः। ८ 'तद्वदृषभादि०' इति च-पाठः।