________________
२५०
अनेकान्तजयपताकास्यं प्रकरणम्
. [ तृतीयः
विकल्पाः, तथापि केषाश्चिदेव तत्प्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वेऽपि वस्तुन्यविसंवादः, मणिप्रभायामिव मणिभ्रान्तेः, ५ नान्येषाम् , तद्भेदप्रसवे सत्यपि यथादृष्टविशेषानुस्मरणं परित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपाद् दीपप्रभायामिव मणिबुद्धेरिति संवादिभ्य एव तनिश्चितिः, नासंवादिभ्यः॥ एतदप्यसत्, अविचारितरमणीयत्वात् । तत्र यत् तावदुक्तम्
(स्वो० व्या०) १० या वासना तया कृतं विप्लवरूपं येषां ते तथाविधाः सर्व एव विकल्पाः सामान्येन, तथापि-एवमपि व्यवस्थिते सति केषाश्चिदेव-अनित्या-ऽनात्मादिरूपाणां तत्प्रतिबद्धजन्मनां-वस्तुप्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वेऽपि, वस्त्वप्रतिभासित्वेऽपीत्यर्थः । किमित्याह-वस्तुन्यविसंवादः। निदर्शनमाह-मणिप्रभायामिव विषयभूतायां मणिभ्रान्तेः कुञ्चिकादिविवरोप३५ लम्भेन, नान्येषां-नित्यात्मादिविकल्पानाम् , तभेदप्रसवे सत्यपि, वस्तुभेदा
दुत्पादे सत्यपीत्यर्थः, यथादृष्टविशेषानुसरणं परित्यज्य कथमित्याहकिञ्चित्सामान्यग्रहणेन सदृशापरहेतुना विशेषान्तरसमारोपात् हेतोः, नान्येषामिति वर्तते । निदर्शनमाह-दीपप्रभायामिव विषय_तायां मणिबुद्धेः
कुञ्चिकादिविवरोपलँम्भेनेव इति-एवं संवादिभ्य एव विकल्पेभ्यस्तनिश्चितिः२० अभिप्रेततत्त्वनिश्चितिः, नासंवादिभ्यः ॥
एवं पूर्वपक्षमाशङ्कयाह-एतदप्यसत्-अशोभनम् । कुत इत्याह-अविचारितरमणीयत्वात् कारणात् । एतदेवाह तत्रेत्यादिना। तत्र यत् तावदुक्तमादौ
(विवरणम्) - (१७) किञ्चित्सामान्यग्रहणेन सदृशापरहेतुना विशेषान्तरसमारोपात् २५ हेतोरिति । किश्चित्सामान्यस्य--किश्चित्सादृश्यस्य ग्रहणम्-अध्यवसायस्तेन । कीदृशेन सामान्यग्रहणेनेत्याह-सदृशापरहेतुना, सदृश:-पाश्चात्यकारणक्षणसमानाकारो योऽपरः कार्यक्षणः स हेतुर्यस्य किन्चित्सामान्यग्रहणस्य तत् तथा तेन । किमित्याह-विशेषान्तरसमारोपात् विशेषान्तरस्य-स्खलक्षणेष्वविद्यमानस्य समानाकाररूपस्य समारोपःअध्यारोपस्तस्माद्धेतो:-कारणात् ॥
१२४९तमे पृष्ठे २५० तमे च! २ 'सदृशापरापरहेतुना' इति घ-पाठः। ३ 'रूपायां' इति ङ-पाठः। ४ 'लम्भेनैव' इति क-ङ-पाठः। ५ 'त्यादि । तत्र' इति क-पाठः । ६ २४९तमे पृष्ठे २५० तमे च ।