________________
१९४
अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीयः
नात्, कचित् तत्प्राप्तेस्तथा निवेदनात्, तथाऽस्पष्टं तु तत् साक्षात्कारेणाक्षव्यापारवैकल्यात्, न त्वतद्विषयत्वेन । एवमिन्द्रियादपि ५कचित् तथाविधक्षयोपशमभावे सङ्केतमन्तरेणापि भवति शब्दार्थविभावनम् , तथाऽन्तर्जल्पाकारादिबोधसिद्धेः, लोकानुभवप्रामाण्यादिति ॥ - स्यादेतत्, इत्थमनेकखभावत्वे वस्तुनो नैकस्यैवानेकप्रमातृभिरव
सायः। तथाहि-यदि य एव तत्वभाव एकावसायस्य निमित्तं स १० एवापरावसायस्य, ततस्तयोरैक्यम्, सर्वथैकनिमित्तत्वात् , इतरेतरखात्मवत् तदभेदेऽपि तदवसायभेदे, तदेकस्वभावतापत्तिः,
(स्वो० व्या०) तज्ज्ञानावरणक्षयोपशमयुक्तः पुमानध्यक्षमिव मत्या तथैव प्रतिपद्यते । कथमेतदेवमित्याह-तदन्यतुल्यजातीयमध्येऽपि तदानयनाय तं प्रति भेदेन प्रवर्तनात् । ५ न ह्यसौ तथाभोगशून्यः प्रवर्तत इति भावनीयम् । तथा कचित्-प्रतिबन्धाभावे तत्मासे, प्रक्रमात् तस्यान्यवाङ्मात्रोक्तस्य प्राप्तेः, तथानिवेदनात् तथा अन्यवाङ्मात्रबोधितत्वेन निवेदनात् नैव न विभावयतीन्द्रियार्थमिति । तथाऽस्पष्टं तु तत्-विभावनं साक्षात्कारेणाक्षव्यापारवैकल्यात्, न त्वतद्विषयत्वेन
न पुनरिन्द्रियार्थाविषयत्वेन प्रणिधानव्यापारेण तत्रेन्द्रियव्यापारादिति । एवमि२०न्द्रियादपि सकाशात् कचित्-न सर्वत्र तथाविधक्षयोपशमभावे-सङ्केतानपेक्षशब्दार्थविभावनफलक्षयोपशमभावे सङ्केतमन्तरेणापि किमित्याह-भवति शब्दार्थविभावनम् । कुत इत्याह-तथाऽन्तर्जल्पाकारादिबोधसिद्धेः किमिदमित्यालोचयतस्तदिदं पूर्वोक्तलिङ्गवत् पनसमिति बोधसिद्धेरित्यर्थः । सिद्धिश्च
लोकानुभवप्रामाण्यादिति ॥ २५ स्यादेतत्, इत्थम्-उक्तनीत्याऽनेकस्वभावत्वे वस्तुना इन्द्रियार्थादे - कस्यैवानेकममातृभिरवसायः। एतदेव भावयति तथाहीत्यादिना । तथाहियदि य एव तत्स्वभावः-वस्तुस्वभावः, एकावसायस्येति एकस्य, प्रमातुरिति प्रक्रमः, अवसाय एकावसायस्तस्य निमित्तं स एवापरावसायस्य-प्रमात्रन्त
रावसायस्य ततस्तयोः-अवसाययोरक्यम् । कुत इत्याह-सर्वथैकनिमित्त३०त्वात्, अधिकृतवस्तुस्वभावैकत्वेन । इतरेतरस्वात्मवादिति निदर्शनम् । एतच्च "यतः स्वभावतो जातमेकम्" इत्यादिना त्वयाऽप्युक्तमेव । तदभेदेऽपि-तत्स्व१ 'चोदितत्वेन' इति क-पाठः । २ 'नपेक्षं शब्दार्थ.' इति ङ-पाठः । ३ ४९तमे पृष्ठे।