________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
भाववैचित्र्येणैतदपि प्रत्युक्तं यदुक्तम्- " शब्देन्द्रियार्थयोर्भेद एव अव्यापृतेन्द्रियस्यान्यवाङ्मात्रेणैवेन्द्रियार्थाविभावनात् इन्द्रियादेव च शब्दार्थाप्रतीतेः” इत्यादि । न खल्वव्यापृतेन्द्रियोऽपि तत्- ५ क्षयोपशमयुक्तोऽन्यवाङ्मात्रेण न विभावयत्येवेन्द्रियार्थम्, तद्वर्णमानचिह्नादिनिश्चितेः, तदन्यतुल्यजातीयमध्येऽपि भेदेन प्रवर्त( स्त्रो० व्या० ) प्रतीतिभावतः संवेदनसिद्धेन शब्दार्थक्षयोपशमानां स्वभाववैचित्र्येण । किमित्याह - एतदपि प्रत्युक्तं यदुक्तं परैः । किं तदित्याह - शब्देन्द्रियार्थयोः, १० शब्दश्चेन्द्रियं च शब्देन्द्रिये, तयोरर्थी - विषयौ तयोर्भेद एव । कुत इत्याह-अव्याप्रतेन्द्रियस्य पुंसः अन्यवाङ्मात्रेणैव अन्यस्माद् वाङ्मात्रं तेनैव इन्द्रिया
विभावनात् - इन्द्रियार्थादर्शनाद् विभावनं - दर्शनम् । तथाहि प्रतीतमेतत् न शब्दादेव पश्यतीति तथा इन्द्रियादेव च सकाशात् शब्दार्थाप्रतीतेः । न हि पनसं पश्यन्नप्यकृतसमयो वाह्वीकः पनसमित्यवैति इत्यादि । 'आदि' शब्दात् "अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः ।
१५
शब्दात् प्रत्येति भिन्नाक्षो ननु प्रत्यक्षमीक्षते ॥
इत्याद्येतत् समानं गृह्यते इत्येतदपि प्रत्युक्तम् । यथा प्रत्युक्तं तथा मन्दमतिहिताय मनागुपदर्शयन्नाह न खल्वित्यादिना । न खलु - नैव 'अव्यापृतेन्द्रियोऽपि पुमान् । किंविशिष्ट इत्याह- तत्क्षयोपशमयुक्तः, प्रक्रमादिन्द्रियज्ञानावरणक्षयो - २० पशमयुक्तः, अन्यवाङ्मात्रेण हेतुना न विभावयत्येव - न पश्यत्येव मत्याभोगेन इन्द्रियार्थम्, “द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः" इति कृत्वा, किन्तु विभावयति एव । कुत इत्याह- तद्वर्णमानचिह्नादिनिश्चितेः, तस्य - इन्द्रियार्थस्य वर्णः - कृष्णादिः, मानं-प्रमाणं महदल्पादि, चिह्न - खण्डादि, 'आदि' शब्दात् मसृणत्वादिग्रहः, एतन्निश्चितेः । तथाहि - कृष्णं महान्तं खण्डं मसृणमपूर्वमपवरकाद् घटमानयेत्युक्ते २५ (विवरणम् )
૬૦૨
(१५) अकृतसमयो वाह्रीक इति । वाह्लीकदेशोद्रवो हि पुमान् सर्वथा तद्विषये पॅनसाभावादसञ्ज्ञतपूर्व तच्छब्दसङ्केतः कथञ्चिद् दक्षिणस्यां दिशि समायातः पनसं पश्यन्नपि न तत्र शब्दं नियोक्तुमुत्सहते ||
१ 'दर्शनादिभावनं' इति क-पाठः । २ अनुष्टुप् । ३ 'अव्यावृतेन्द्रियोऽपि' इति क- पाठः । ४ 'भावयति अवमत्या भागेनेन्द्रियार्थम्' इति क-पाठः । ५ 'वाष्णीक इति' इति क- पाठः । ६ 'वाष्णीकदेशो ०' इति क- पाठः । ७ 'पनशाभावा०' इति च पाठः । ८' सातपूर्व
इति ख-च- पाठः ।
अनेकान्त० २५