________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) । स्यादेतदनलशब्दो ह्यनले तदभिधानस्वभावतया यमभिधेय
परिणाममाश्रित्य प्रवर्तते स जले नास्ति, जलानलयोरभेदप्रसङ्गात् । ५. प्रवर्तते च समयाजलेऽनलशब्दा, तथाप्रतीतेरिति कथमनयोवास्तवो योग इति ? । उच्यते-शब्दस्यानेकखभावत्वात् । न बनलशब्दस्यानलगताभिधेयपरिणामापेक्षी तदभिधानखभाव एवैकः स्वभावः, अपि तु तथाविलम्बितादित्वेन जलगताभिधेयपरिणामापेक्षी तदभिधानखभावोऽपि, तथातत्प्रतीतेः, तदुवैचित्र्येण दोषा१० भावात् , क्षयोपशमवैचित्र्यतस्तथाप्रवृत्तेः, अन्यथाऽहेतुकत्वेन तदभावप्रसङ्गादिति । एतेन तथाऽनुभवसिद्धेन शब्दार्थक्षयोपशमख
(खो० व्या०) स्यादेतदिति । स्यादेतत् , अनलशब्दो ह्यनलेऽभिधेये तदभिधानखभावतया-अनलाभिधानखभावत्वेन यमभिधेयपरिणाममाश्रित्य प्रवर्तते, १५ वास्तवं स जले नास्ति परिणामः । कुत इत्याह-जलानलयोरभेदप्रसङ्गात्, तदेकाभिधेयपरिणामभावेन । यदि नामैवं ततः किमित्याह-प्रवर्तते च समयात् -सङ्केतेन जलेऽनलशब्दः । कुत इत्याह-तथाप्रतीतेः-समयद्वारेण प्रवृत्तिप्रतीतेः । इति-एवं कथमनयोः, प्रक्रमाद् वस्तुवाचकयोस्तिवो योगःतात्त्विका सम्बन्ध इति । एतदाशङ्कयाह-उंच्यतेऽत्र परिहारः, शब्दस्यानेकख२० भावत्वात् । शब्दग्रहणं वस्तूपलक्षणम्, उभयोरनेकस्वभावत्वादनयोर्वास्तवो योग इति । अमुमेवार्थं प्रकटयन्नाह-न ह्यनलेत्यादि । न यस्मात् अनलशब्दस्थानलगताभिधेयपरिणामापेक्षी, अनलगतमभिधेयपरिणाममपेक्षते, तच्छीलश्च इति विग्रहः, तदभिधानखभाव एव-अनलाभिधानस्वभाव एव एकः
खभावः, अपि तु तथाविलम्बितादित्वेन-समयापेक्षितत्स्मृतिपूर्वकत्वेन २५ जलगताभिधेयपरिणामापेक्षी तदभिधानखभावोऽपि । कुत इत्याह
तथातत्प्रतीतेः-तथा-विलम्बितादित्वेन जलप्रतीतेरिति । तदुवैचित्र्येण, प्रक्रमादनलशब्दस्वभाववैचित्र्येण, दोषाभावात्-पूर्वोक्तदोषनिवृत्तेरित्यर्थः । क्षयोपशमवैचित्र्यतः कारणात् तथाप्रवृत्तेः-जलेऽनलशब्दसमयप्रवृत्तेः । अन्यथाएवमनभ्युपगमेऽहेतुकत्वेन तदभावप्रसङ्गात्-तथाप्रवृत्त्यभावप्रसङ्गादिति । ३० एतेन-अनन्तरोदितेन तथाऽनुभवसिद्धेनोक्तनीत्या समयाजलेऽप्यनलशब्दात्
१ 'प्रतीतेः अन्यथा' इति क-पाठः। २ 'उच्यते तत्र परिहारः' इति घ-पाठः ।