________________
१९१
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १९१
(मूलम्) साधु, उक्तवदखाभाविकत्वासिद्धेः, वक्ष्यमाणत्वाचापोहाधिकारे, अतः 'समयादर्शनेऽभावात्' इत्ययुक्तम् , तस्य क्षयोपशमव्यञ्जकत्वात्, तद्भावे तु तदभावेऽपि भावात्, कचित् तथोपलब्धेः,५ अन्यथा सदा तदपेक्षा स्यात् । एवं च 'पुरुषेच्छातोर्थानां स्वभावापरावृत्तरित्यादि यावदशब्दसंयोजनमेवार्थं पश्यति दर्शनात् इत्येतनिर्विषयमेव, अत्र ह्यनेकस्वभावतापत्त्या वस्तुनो नैरात्म्यमिति परं दूषणम् । एतच्चैकानेकख भावतयाऽस्य तत्त्वतोऽदूषणमेव, अन्यथा तदसत्त्वप्रसङ्गादित्युक्तप्रायम् । अतो विरोधिशब्दवाच्यत्वेऽपि तत्-१० तत्स्वभावतया तथोपलब्धेर्न कश्चिद् दोषः॥
(स्त्रो० व्या०) उक्तवत्-यथोक्तं प्राक् ‘सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वात्' इत्यादिना तथाऽस्वाभाविकत्वासिद्धेस्तत्सम्बन्धस्य वक्ष्यमाणत्वाचापोहाधिकारे तदसाध्विति । अतःसमयादर्शनेऽभावादिति यदुक्तं तत् अयुक्तम् । १५ कुत इत्याह-तस्य-समयस्य क्षयोपशमव्यञ्जकत्वात् तद्भावे तु-क्षयोपशमभावे तु तदभावेऽपि-समयाभावेऽपि भावात् , शब्दविशेषस्मृतेरिति प्रक्रमः । शब्दविशेषस्मृतिग्रहणं चात्र प्रतिपत्त्युपलक्षणं वेदितव्यम् । भावश्च कचित्-विशिष्टक्षयोपशमवति प्रमातरि तथोपलब्धेः-समयाभावेऽपि शब्दविशेषस्मृत्युपलब्धेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-क्षयोपशमभावेऽपि समया- २० पेक्षाभ्युपगमे सदा-सर्वकालं तदपेक्षा स्यात्-समयापेक्षा स्यात् । ततश्च सदा सङ्केतकरणान्या व्यवहाराभावः । एवं च पुरुषेच्छातोऽर्थानां स्वभावापरावृत्तरित्यादि पूर्वपक्षवचनं यावदशब्दसंयोजनमेवार्थ पश्यति दर्शनादित्येतन्निर्विषयमेव । कुत इत्याह-अत्रेत्यादि । अत्र यस्मात्-अनेकखभावता. पत्त्या वस्तुनो नैरात्म्यमिति परं दूषणमुक्तम् । एतच दूषणमेकानेक- २५ स्वभावतया अस्य-वस्तुनः तत्त्वतोऽदूषणमेव, अन्यथा-एवमनभ्युपगमे तदसत्त्वप्रसङ्गात्-वस्तुनोऽसत्त्वप्रसङ्गादित्युक्तप्रायं-प्रायेणोक्तम्, अतो विरोधिशब्दवाच्यत्वेऽपि सति, वस्तुन इति प्रक्रमः, तत्तत्वभावतया कारणेन तथोपलब्धेः-विरोधिशब्दवाच्यत्वेनोपलब्धेर्नित्यानित्यादिशब्दप्रवृत्तितया न कश्चिद् दोष इति प्रस्तुताधिकारनिगमनम् ॥
३० १ ईश्यतां १४१तम पृष्टम् । २ समवलोक्यतां १४१तम पृष्ठ १४२ तमं च । ३ १८० तमे पृष्ठे १८१तमे च । ४ 'बाऽत्र' इति घ-पाठः। ५ 'भावेऽपि समभावेऽपि समयापेक्षाः' इति -पाठः ।