________________
१९०
[ तृतीयः
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) योजयति" इत्यप्ययुक्तम् , तद्विज्ञानसंसृष्टस्य तथायोजनात् , इतरस्य
अपि तत्सम्भवाविरोधात् । एवम् 'अयोजयन् न प्रत्येति इत्यप्य५साम्प्रतमेव, शब्दान्तरमधिकृत्यायोजयतोऽपि प्रतीतेः, तद्व्यतिरि
तेन तूक्तवद् योग एव 'इत्यायातमान्ध्यमशेषस्य जगतः" इत्युक्तिमात्रम्, विवक्षिताभिधेयार्थशून्यत्वात् , उक्तवत् तदयोगादिति ॥ . यत् पुनरेतदाशङ्कितम् 'अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कार
तेन स्मृतिनार्थदर्शनात्" इति, एतदर्थतः साध्वेव, क्षयोपशमस्य १० द्रव्यादिनिमित्तत्वाभ्युपगमात्, तदनुसारेण तत्प्रवृत्तिसम्भवात् । यत् पुनरिदमुक्तम्-'न, तत्सम्बन्धस्यास्वाभाविकत्वात्" इति, एतद
(स्वो० च्या०) योजयति' इत्यपि पूर्वपक्षोक्तमयुक्तम् । कुत इत्याह-तद्विज्ञानसंसृष्टस्य,
शब्दस्येति प्रक्रमः, तथा-वाचकत्वेन योजनात्, इतरस्यापि-तत्प्रतिवद्धशब्दा. १५ न्तरस्य तत्सम्भवाविरोधात्-योजनासम्भवाविरोधात् । एवम् 'अयोजयन् न
प्रत्येति' इत्यपि पूर्वपक्षवचोऽसाम्प्रतमेव-अशोभनमेव। कुत इत्याह-शब्दान्तरमधिकृत्य तत्प्रतिबद्धम् अयोजयतोऽपि प्रतीतेः, प्रक्रमाद् वस्तुनः, इति तव्यतिरिक्तेन तु, प्रक्रमात् विज्ञानसंसृष्टेन, उक्तवत्-यथोक्तं तथा योग एव इति-एवमायातमान्ध्यमशेषस्य जगत इत्युक्तिमात्रं-वचनमात्रम् । २० कुत इत्याह-विवक्षिताभिधेयार्थशून्यत्वात्, शून्यत्वं च उक्तवत्-यथोक्तं
तथा तदयोगाद्-विवक्षितार्थायोगादिति ॥ ___ यत् पुनरित्यादि । यत् पुनरेतदाशङ्कितं परेण । किमित्याह-'अभिपतनेवार्थः प्रबोधयत्येवान्तरं संस्कारं तेन स्मृतिर्नार्थदर्शनात्' इति । एतदर्थतः-अर्थमधिकृत्य साध्वेव-शोभनमेव । कथमित्याह-क्षयोपशमस्य २५ तत्तद्विज्ञाननिबन्धनस्य । किमित्याह-तत्तद्रव्यादिनिमित्तत्वाभ्युपगमात्।
यदि नामैवं ततः किमित्याह-तदनुसारेण-अर्थाभिपतनानुसारेण तत्प्रवृत्तिसम्भवात्-क्षयोपशमप्रवृत्तिसम्भवादिति । यत् पुनरिदमुक्तं पूर्वपक्षग्रन्थ एव-'न, तत्सम्बन्धस्यास्वाभाविकत्वात्' इति,एतदसाधु-अशोभनम् । कुत इत्याह
१-३ ईक्ष्यता १४०तम पृष्ठम् । ४ प्रेक्ष्यतां १४० तमं पृष्ठं १४१तमं च। ५ समीक्ष्यता १४१तमं पृष्ठम् । ६ १४० तमे पृष्ठे। ७ प्रेक्ष्यतां १४०तम पृष्ठम् । ८ 'प्रबोधयत्यान्तरं' इति घ-- पाठः। ९क्षयोपशमस्येत्यारभ्य 'किमित्याह'पर्यन्तकः पाठो नास्ति घ-पुस्तके । 'क्षयोपशमतत्त. द्विज्ञान०' इति ङ-पाठः । १० १४१तमे पृष्ठे ।