________________
स्वोपज्ञव्याख्या मुनिचन्द्रीय विवरणयुतम्
(मूलम् )
3
शब्दविशेषमनुस्मरति" इत्येतदपि विचारास्पदमेव । यदि येनैव संसृष्टविज्ञानः तमेव नानुस्मरतीति सिद्धसाध्यता, तस्य तदा तेनैव वेद्यमानत्वात् । अथ तत्प्रतिबद्धं शब्दान्तरमिति, तदसिद्धम्, तस्य ५ सति क्षयोपशमे तद्दर्शनात् स्मरणोपपत्तेः । एवम् 'अननुस्मरन् न ( स्वो० च्या० ) साध्यता । कुत इत्याह-शब्दार्थस्य तेन - अविकल्पज्ञानेन अदर्शनात् । ततश्च विकल्पज्ञानेन सशब्दमर्थं पश्यतीति भवति । अयमेव च शब्दार्थ इति भावः । एवं च 'अपश्यंश्च न शब्दविशेषमनुस्मरति' इत्येतदपि पूर्वपक्षोपन्यस्तं १० विचारास्पदमेव । किमुक्तं भवति १ । न शब्दविशेषमनुस्मरति । यदि येनैवशब्दविशेषेण "संसृष्टविज्ञानः प्रमाता तमेव-शब्दविशेषं नानुस्मरतीति- एवं सिद्धसाध्यता । कुत इत्याह- तस्य - शब्दविशेषस्य तदा तेनैव-ज्ञानेन वेद्यमानत्वात् तद्बोधाविनिर्भागेन । अथ तत्प्रतिबद्धं, प्रक्रमाद् दृश्यवस्तुप्रतिबद्धम्, शब्दान्तरं न शब्दविशेषमनुस्मरति इति । एतदधिकृत्याह - तदसिद्धं १५ तस्य - शब्दान्तरस्य सति क्षयोपशमे तज्ज्ञानावरणकर्मणः तद्दर्शनात् - न्यायप्रापितशब्दार्थदर्शनात् स्मरणोपपत्तेः - स्मरणसम्भवात् । एवम् 'अननुस्मरन् न
अधिकार: ]
१८९
( विवरणम् )
किन्तु निर्विकल्पज्ञानेन स्वरूपनामादिकल्पनारहितम्, अत एवाभिधानसम्बन्धायोग्यं सामान्यमात्रं गृह्यते, तत्र च शब्दयोजना नास्त्येव यत् तु किमिदमित्याद्युल्लेख नज्ञानं २० तत् तथाविधक्षयोपशमसामर्थ्यात् प्रथमत एव सशब्दमुजिहीते, न तु विभिन्नमर्थमालोक्य प्रथमतः पश्चात् तन्नाम योजयति । यच्च घट इत्यादिविशेषाभिधानयोजनं तत् तथाविधसङ्केतवशसमुपजातक्षयोपशमवशादिति, अतो निर्विकल्पज्ञानेन अशब्दमर्थं घटादिकं न पश्यतीति यद्युच्यते परेण तदा सिद्धसाध्यतैवेति स्थितम् ॥
.
(८) शब्दार्थस्य तेनाविकल्पज्ञानेन अदर्शनादिति । शब्दसंयोजनायोग्य स्य २५ अर्थस्य - घंटादेस्तेना विकल्पज्ञानेनानवलोकनादित्यर्थः ॥
(९) अयमेव च शब्दार्थ इति भाव इति । न चायमशब्दमर्थं पश्यतीति वाक्यस्य परोपन्यस्तस्यायमेवार्थो यदुत विकल्पज्ञानेन सशब्दमर्थं पश्यतीति ॥
११४० विज्ञान:' इति घ- पाठः । ७ ' ससब्दसज्जहीने (?) ननु'
पृष्ठम् । २ ' तदसिद्धेः तस्य' इति ग-पाठः । ३ १४०तमे पृष्ठे । ४ 'संस्पृष्ट५ 'निर्भागन' इति ङ-पाठः । ६ 'ज्ञानस्वरूप ०' इति च - पाठः । ८ ' ननु विभिन्न०' इति क-पाठः । ९ इति ख- पाठः ।
'यच
घट इत्यादि विशेषाभिधान (१) योजयति' इत्यधिकः क - पाठः । १० 'घटादिस्तेना०' इति च पाठः ॥