________________
१८८ अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम् ) वत्' इति नैकान्तसुन्दरम् , तदर्थस्याभिलापासंसृष्टबोधेनादर्शनात्,
तथाखभावत्वात्, शब्दान्तरास्मृतौ चोक्तवददोषात् । एवं च 'न ५ चायमशब्दमर्थं पश्यति इति विचारणीयम् । यदि शब्दानास्कन्दित
मिति तदसिद्धम् , केवलस्यैव दर्शनात् । अथाविकल्पज्ञानेन, ततः सिद्धसाध्यता, शब्दार्थस्य तेनादर्शनात् । एवं च 'अपश्यंश्च न
(स्वो० व्या०) स्यात् अग्निधूमवत्' इति पूर्वपक्षोदितं नैकान्तसुन्दरम् । कुत इत्याह१० तदर्थस्य-शब्दार्थस्य अभिलापासंसृष्टबोधेनादर्शनात् । अदर्शनं च तथा
खभावत्वात्-अभिलापासंसृष्टबोधेनादर्शनस्वभावत्वात् । शब्दान्तरास्मृतौ चवाचकविशेषास्मृतौ च उक्तवत्-येथोक्तं 'तथाविधावरणभावात्' इत्यादि, तथाऽदोषात्। एवं च कृत्वा 'न चायमशब्दमर्थ पश्यतीति एतत् पूर्वपक्षोदितं विचारणीयम् । किमुक्तं भवति अशब्दमिति ? । यदि शब्दानास्कन्दित१५ मिति तदसिद्धम् । कुत इत्याह-केवलस्यैव तच्छब्दानास्कन्दितस्य दर्शनात् ।
अथाविकल्पज्ञानेन अशब्दमर्थं पश्यति । एतदाशङ्कयाह-ततः सिद्ध
(विवरणम्) (१२) वाचकविशेषास्मृतौ च उक्तवदिति । वाचकविशेषास्मरणं तथाविधावरणसद्भावाद् भवतीति अर्थः॥ २० (१६) अथाविकल्पज्ञानेन अशब्दमर्थ पश्यतीति । यत्र घटादावथै विशेषरूपे
घटशब्दप्रवृत्तिर्भविष्यतीति तमर्थमशब्दं घट घट इत्यभिधाने योजनाविकलं सन्तं न पश्यति-न साक्षात्करोति निर्विकल्पकेन ॥
(१६, पृ. १८९) ततः सिद्धसाध्यतेति । यदि ह्यस्माभिरेतदभ्युपगम्यते यदुत निर्विकल्पकज्ञानेन साक्षास्क्रियते घटस्तदनुविशिष्टं नाम योज्यते, तदानीं स्यादेतत् परोक्तं २५ दूषणं यदुत 'न चायमशब्दमर्थं पश्यति अपश्यंश्च न शब्दविशेषमनुस्मरति' इत्यादि',
१-२ प्रेक्ष्यतां १४०तम पृष्ठम् । ३ १४० तमे पृष्ठे । ४ 'विशेषस्मृती' इति उ-पाठः । ५१८७ तमे पृष्ठे। ६ १४० तमे पृष्ठे । 'तथाविधावधारण.' इति क-पाठः। ८ 'विकलज्ञानेन' इति ख-पाठः । ९ 'धानयोजना.' इति च-पाठः। १० 'सिद्धये तेति' इति क-पाठः । ११ 'तदा न स्यादेतत्' इति क-पाठः। १२ प्रेक्ष्यतां १४०तम पृष्ठम् ।