________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१८७
यदपि कचिद् वाच्योपलब्धौ तद्वाचकविशेषास्मरणं तदप्यनेकवाचकवाच्यत्वेऽस्य तथाविधावरणभावाद् विकल्पबोधवत एव, अभिलापाद्यसंसृष्टबोधेनाननुस्मरणात् तथाप्रतीतेरिति । एवं च ५ 'सति यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ततः स्मृतिः स्यात् , अग्निधूम
(खो० व्या०) स्मृत्ययोगोऽवाधक एव, स्मृतेरेवान्तर्जल्पाकारबोधरूपतयाऽप्रवृत्तिप्रसङ्गादिति हृदयम् ॥ ___ दोषान्तरपरिजिहीर्षयाऽऽह-यदपि कचिद् वाच्योपलब्धौ सत्यां तत्-१० वाचकविशेषास्मरणं किमिदमित्यादि सामान्यवाचकप्रवृत्तावेव तदप्यनेकवाचकवाच्यत्वेऽस्य-वस्तुनः तथाविधावरणभावात्-वाचकविशेषस्मरणावरणभावाद् विकल्पबोधवत एव, अस्मृतिपूर्वकशब्दसम्पृक्तबोधवत एवेत्यर्थः । कुत इत्याह-अभिलापाद्यसंसृष्टंबोधेन, 'आदि'शब्दाद् विशिष्टमनःपरिग्रहः, अननुस्मरणात् कारणात् । अननुस्मरणं च तथाप्रतीतेः। न ह्यवग्रहमात्रात् १५ स्मृतिः। एवं च कृत्वा 'सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ततःस्मृतिः
(विवरणम् ) (८) स्मृतेरेवान्तर्जल्पाकारबोधरूपतयाऽप्रवृत्तिप्रसङ्गादिति । यदि हि प्रागुपलब्ध एव ध्वनिः स्मर्यमाणः सन् अर्थाभिधानाय प्रयुज्यते तदा स्मृतिरेव न युज्यते, अन्तर्जल्पाकारानुविद्धाया एव तस्याः किमेतदित्युल्लेखेन स्वत एव प्रथमतः २० प्रवृत्तौ, पश्चाद् देवदत्तादिशब्दप्रयोगेण वक्ता वाह्यमर्थमभिदध्यात् , अतः स्वत एव व्यवहाराहेषु ज्ञानेषु सामान्येन साभिजल्पतया प्रवृत्तेषु सत्सु पश्चाद् विशेषशब्दस्मरणमपि तदभिमतं युज्येतेति ॥
(१४) अभिलापाद्यसंसृष्टबोधेनेति । यदि हि अभिलापेन किमिदमित्यादिरूपेण स्वभावत एव संसृष्टो बोध ईहादिरूपो न प्रथमत उत्पद्यते तदा न च कथञ्च- २५ नापि विशेषवाचकस्मृतिरुज्जृम्भते । यत्र च सामान्याभिलापप्रवृत्तावपि कस्यचित् कचिदर्थे न वैशेषिकी वाचकस्मृतिरुत्पद्यते साऽद्यापि दृढतरावारककर्मक्षयोपशमाभावेन, अतः सिद्धमिदं सामान्यतो वाच्योपलब्धौ किमिदमित्यादिवाचकप्रवृत्तिपूर्वकमेव विशेषवाचकस्मरणमिति ॥
१ 'बोधेन अर्थादिशब्दाद्' इति क-पाठः । २'लापे प्रवृत्ता.' इति क-पाठः। ३ 'विशेषवाचक.' इति क-पाठः। ४ 'सद्योऽपि' इति क-पाठः।