________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
५
पत्तेः । इति बाह्यालम्बनवादिनैकाने कस्वभावमेव तदङ्गीकर्तव्यम् । तत्राप्यनुपश्रुतप्रमात्र विगानसंवेद्याः खभावा वस्तुसन्तस्तदन्ये पुन'नैति, तथालोकानुभवसिद्धेः, अन्यथा तद्वाधया सर्वमेवासमञ्जसम् अनिबन्धनत्वात् । इत्ययुक्तैकान्ततः शुष्कतर्कानुसारिणी सूक्ष्मेक्षिका, अनया हि भवदध्यक्षलक्षणमप्यसम्भाव्येवेति वक्ष्यामः ॥
१८६
१०
[ तृतीयः
अतोऽनेकस्वभावे वस्तुनि क्षयोपशमानुरूपप्रतिपत्तायुक्तवदन्तजल्पाकार बोधसिद्धेः, अभिधानविशेषस्मृत्ययोगोऽबाधक एव ।
( खो० व्या० )
इत्याह - विशेषहेत्वभावात् अनुभवस्याणुसमुदायमात्रालम्बनत्वेन । सर्वत्रानाश्वासे च तत्त्वव्यवस्थानुपपत्तेः विसंवादिबोधाशङ्कया । इति एवं बाह्यालम्बनवादिना सर्वेण एकानेकस्वभावमेव तत्-आलम्बनमङ्गीकर्तव्यमित्याह तत्रापि - एवम्भूत आलम्बनेऽनुपलुतप्रमात्र विगानसंवेद्याः ख१५ भावा: - धर्मा वस्तुसन्तः - परमार्थसन्तः इन्द्रनीलादौ स्थूरादिधर्मवत् तदन्ये पुनर्न उपतप्रमातृविगानसंवेद्या दीपमण्डलादिवदिति । कुत एतदेवमित्याह - तथालोकानुभवसिद्धेः कारणात् । अन्यथा - एवमनभ्युपगमे तद्वाधयालोकानुभवबाधया सर्वमेवासमञ्जसम् । कुत इत्याह- अनिबन्धनत्वात्नियामकाभावात् । इति-एवमयुक्तैकान्ततः शुष्कतर्कानुसारिणी-जाति२० वादप्रधाना सूक्ष्मेक्षिका । किमित्ययुक्तेत्याह-अनया यस्माच्छुष्कतकीनुसारिण्या सूक्ष्मेक्षिकया भवदध्यक्षलक्षणमपि भवतोऽध्यक्षलक्षणं “प्रत्यक्षं कल्पनापोढम् " इत्याद्यपि असम्भाव्येवेति वक्ष्यामः ॥
एवं प्रासङ्गिकमभिधाय प्रकृतमुपक्रमते अत इत्यादिना । अतोऽनेकस्वभावे वस्तुनि उक्तनीत्या व्यवस्थिते क्षयोपशमानुरूपप्रतिपत्तौ सत्यां उक्तवत्२५ यथोक्तं तथा अन्तर्जल्पाकारबोधसिद्धेः कारणात् अभिधानविशेष
(विवरणम् )
(११) अनुभवस्याणुसमुदायमात्रालम्बनत्वेनेति । सर्वेऽपि हि बौद्धमतेऽनुभवा अणुसमुदायमात्रालम्बनाः, अन्यस्यापि विषयस्याभावात् । अतः किंकृतो विशेषो येनैकेऽनुभवमात्रत्वेन प्रतिक्षिप्यन्ते, अन्ये तु नेति ? ॥