________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
तदणुत्वकल्पने ऽतिप्रसङ्गात्, अन्याणूनां समुदायादर्शनेऽपि तद्भावप्रसङ्गात्, तैस्तद्भेददर्शने चानेकस्वभावतापत्तेः तेषामेवायोगिभिरन्यथादर्शनात्, अन्यथा अन्यतरविज्ञानस्य अविषयत्वप्रसङ्गात्, ५ दृष्टेष्टविरोधात् भिन्नसंस्थानबुद्ध्यसिद्धेः, तत्त्वतः अणुसमुदायाविशेषतस्तदयोगात्, अस्याश्वानुभवसिद्धत्वात्, प्रतिक्षेपायोगात् सर्वत्रानाश्वासप्रसङ्गात्, विशेषहेत्वभावात् तत्त्वव्यवस्थाऽनुप
१८५
( स्वो० व्या० )
भावार्थ: । आह च तथापि - योगिभिरप्यदर्शनेऽपि तदणुत्वकल्पने - समुदाय - १० दृश्यस्वभावानामणुत्वकल्पने । किमित्याह - अतिप्रसङ्गात् । प्रसङ्गश्च अन्याणूनां प्रत्येकमदृश्यस्वभावानां समुदायादर्शनेऽपि सति तद्भावप्रसङ्गात् - समुदाय - भावप्रसङ्गात् । तैरित्यादि । तैः, योगिभिरिति प्रक्रमः, तद्भेददर्शने च तेषां - समुदायहश्यस्वभावानामेव भेददर्शने च- प्रत्येकदर्शने चाभ्युपगम्यमानेऽनेकस्वभावतापत्तेः तेषाम् । आपत्तिश्च तेषामेव योगिभेददर्शनगोचराणामयोगि- १५ भिरन्यथादर्शनात्, समुदायत्वेन दर्शनादित्यर्थः । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा - एवमनभ्युपगमेऽन्यतर विज्ञानस्य - योगिविज्ञानस्य योगिविज्ञानस्य वा अविषयत्वप्रसङ्गात् तदालम्बनस्वैभावाभावेन । न चायं न्याय्यः प्रसङ्ग इत्याह- दृष्टेष्टविरोधात् । अयोगिज्ञानाविषयत्वे दृष्टविरोधः, योगिज्ञानाविषयत्वे चाभ्युपगमविरोध इति भावः । दोषान्तरमाह - भिन्नसंस्थानबुद्ध्यसिद्धेः, अणुसमुदायाविशेषेण घटशरावादिबुद्ध्यसिद्धेरित्यर्थः । अमुमेवार्थं स्पष्टयन्नाह - तस्वतः - परमार्थेन अणुसमुदायाविशेषतः कारणात् तदयोगात् -भिन्नसंस्थानायोगेन तद्बुद्ध्ययोगात् । यदि नामैवं ततः किमित्याह- अस्याश्च भिन्नसंस्थानबुद्धेः अनुभवसिद्धत्वात्, अत एव प्रतिक्षेपायोगात् । अयोगश्च सर्वत्रानाश्वासप्रसङ्गात्, अनुभवप्रतिक्षेपे सति । न चासावनुभवमात्रविषय २५
२०
( विवरणम् )
(२५) न चासावनुभवमात्रविषय इति । न च -- - नैवासौ प्रतिक्षेपोऽनुभवमात्रविषयः, अनुभवमात्रं - प्रतिभासमानार्थविकलं ज्ञानं विषयः - गोचरो यस्य तत् (?) तथा ॥
१ 'दर्शनेन प्रत्येक०' इति क पाठः । २ 'स्वभावाभावाभावेन' इति क - पाठः । ३ ' मात्रप्रति ०' इति ख- पाठः ।
अनेकान्त० २४