________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीयः
(मूलम् )
न्याय्यत्वात् तन्निवृत्तिरिति चेत्, किं तदेकमेकस्वभावम् ? । किमत्रोच्यते ? वस्तुखलक्षणमेव, न तस्य स्थूराकारप्रतिभासिनो - ५ सत्त्वात्, अणूनां चाप्रतिभासनात्, समूहस्याद्रव्यसत्त्वात् तेषामेव तत्त्वे तदनुपलम्भात्, समुदायदृश्यस्वभावत्वेऽनेकस्वभावत्वप्रसङ्गात्, प्रत्येकमदृश्यस्वभावत्वात्, तत्तद्वेदे तदनणुत्वप्रसङ्गात् समुदायदृश्यस्वभावतया, अन्यथा योगिभिरप्यदर्शनात्, तथापि ( खो० व्या० )
-
विरोधात् कारणात् तस्यान्याय्यत्वादनेकस्वभावत्वस्य तन्निवृत्तिः - निर्विकल्पेन निरंशवस्तुग्रहणे दोषजाशङ्कानिवृत्तिस्तद्भावसम्भवात् । इति चेत्, एतदाशङ्कयाह किं तदेकमेकस्वभावं निरंशं यद्भावसम्भवेन तद्दर्शनमदोषजं स्यादिति ? । किमत्रोच्यते ? वस्तुखलक्षणमेव ऐकमेकैकस्वभावम् । एतदाशक्याह-न, तस्य-स्वलक्षणस्य स्थूराकारेण - ऊर्ध्वादिलक्षणेन प्रतिभासते तच्छीलं १५ चेति विग्रहः तस्य घटादेरित्यर्थः, असत्त्वात् कारणात् सञ्चयात्मकत्वेन अणूनां चाप्रतिभासनादित्यादेः, बाह्यालम्बनवादिनै काने कस्वभावमेतदङ्गीकर्तव्यमिति योगः । तथाऽणूनां चाप्रतिभासनादिति सिद्धमेव । न ह्यणवः पृथग्जनविज्ञाने प्रतिभासन्ते, तत्समूहः प्रतिभासत इत्येतन्निरासायाह- समूहस्य, प्रक्रमादणुसमूहस्य, अद्रव्यसत्त्वात्- अपरमार्थसत्त्वात् । तद्व्यतिरिक्तोऽद्रव्यसंस्त एव तु सन्त इति २० एतद्द्व्यपोहायाह- तेषामेव अणूनां तवे- समूहत्वे तद्वत् - अणुवत् अनुपलम्भात् । तथाहि—अणव एव समूहस्ते चादृश्या इति । समुदायहश्यस्वभावा इति समूहे उपलभ्यन्त इत्यप्यसदित्याह -समुदायदृश्य स्वभावत्वे, प्रक्रमादणूनाम् । किमित्याह - अनेकस्वभावत्वप्रसङ्गात् । प्रसङ्गश्च प्रत्येकमदृश्यस्वभावत्वात् । अणूनां तेभ्य एव समुदितेभ्यो भेद इत्यत्रापि दोषमाह - तत्तद्भेदे तेभ्यः२५ प्रत्येकमदृश्यस्वभावेभ्यस्तद्भेदे -समुदायदृश्य स्वभावाणुभेदेऽभ्युपगम्यमाने तदनणुत्वप्रसङ्गात्, तेषां समुदायदृश्यस्वभावानामनणुत्वप्रसङ्गात् । प्रसङ्गश्च समुदायदृश्यस्वभावतया कारणेन, अन्यथा प्रत्येकत्वेनादृश्यस्वर्भावतया योगिभिरप्यदर्शनात् । ततश्च समुदायदृश्यस्वभावा अपर एवैते भावा नाणव इति ( विवरणम् )
-
(११) तद्भावसम्भवादिति । तद्भावस्य - निरंशवस्तुसत्त्वस्य सम्भवात् ॥
१०
३०
१८४
१ 'तस्य' इति पाठो न विद्यते ग प्रतौ । २ 'भावत्वेनैक०' इति घ-पाठः । ३ 'मेकखभावम्' इति घ- पाठः । ४ 'लम्बनत्वादिनैका०' इति क-पाठः । ५ प्रेक्ष्यतां १८५ त पृष्ठम् । ६ ' इत्येवं निरासायाह' इति ङ-पाठः । ७ 'अपरपरमार्थ ०' इति ङ-पाठः । ८ 'भावत योगि०' इति कपाठ: । ९ भावानां अणव' इति क-पाठः ।