________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
तन्निमित्तत्वेऽपि भ्रान्तत्वात्, आन्तरदोष वैगुण्येनोत्पत्तेः तद्विकलेनादर्शनात्, इन्द्रनीलादिधर्माणां तु तदन्यवेदिनाऽपि वेदनात्, सूक्ष्मधर्मद्रष्टाऽपि स्थूराणां ग्रहणात्, तथाप्रतीतेः । न चैवं दीपादि - ५ द्रष्ट्रा तद् गृह्यते इति दोषविजृम्भितमेतत् ॥
'दोषाद सद्दर्शन सिद्धेः सर्वधर्मदर्शनमेव दोषजमस्त्विति चेत्, अदोषजं तर्हि कीटक ? | निर्विकल्पेन निरंशवस्तुग्रहणम्, न, तत्राप्युक्तवत् तदाशङ्काऽनिवृत्तेः, एकस्थानेकखभावत्वविरोधात्, तस्या( खो० व्या० )
इत्यादि । इति चेत्, एतदाशङ्कयाह-न, तस्य मण्डलादिदर्शनस्य तन्निमित्तत्वे अपि- प्रदीप निमित्तत्वेऽपि भ्रान्तत्वात् कारणात् । भ्रान्तत्वं च आन्तरदोषात्नयनरोगाद् वैगुण्यमान्तरदोषवैगुण्यं तेन प्रधानहेतुना उत्पत्तेः । एतच्चैवमेवेति ट्रेडयन्नाह - तद्विक लेन - आन्तरदोषविकलेन द्रष्टेति सामर्थ्यात् अदर्शनात् दीपे सत्यपि दीपमण्डलादेरित्यान्तरदोषवैगुण्यस्य प्रधानता । मा भूदिन्द्रनीलादावप्येवमिति १५ व्यतिरेकमाह - इन्द्रनीलादिधर्माणां तु अनेकदीपावभासितानां तदन्यवेदिना अपि - धर्मान्तरवेदिनाऽपि प्रमात्रा वेदनात् । एतदेवाह - सूक्ष्मधर्मद्रष्ट्राऽपि प्रमात्रा स्थूराणां ग्रहणात् । ग्रहणं च तथाप्रतीतेः । सत्संस्थानादिधर्मग्रहणसङ्गतैव तत्कान्त्यादिप्रतीतिरिति भावनीयम् । न चैवं दीपादिद्रष्टा-पुरुषेण अविशेषत एव तत् - दीपमण्डलादि गृह्यते । इति दोषविजृम्भितमेतत्-दीप- २० मण्डलादिदर्शनमिति ॥
१८३
१ 'द्रष्ट्रा हि स्थूराणां' इति ग-पाठः । २ ' दृढयन्नाह' इति क-पाठः । अदर्शनाद्' इति क-पाठः । ४ 'सामर्थ्यं अदर्शनात्' इति ङ-पाठः । ६ 'धर्मद्रष्ट्राऽपि' इति क-पाठः ।
दोषादित्यादि । दोषात् सकाशात् असद्दर्शन सिद्धेः कारणात् सर्वधर्मदर्शनमेव, सत्त्वादिदर्शनमित्यर्थः, दोषजमस्तु । इति चेत्, एतदाशङ्कयाहअदोषजं तर्हि कीदृग दर्शनं यदपेक्षायैतद् दोषजमित्यर्थः । निर्विकल्पेन ज्ञानेन निरंशवस्तुग्रहणम् अदोषजं दर्शनमित्यभिप्रायः । एतदाशक्त्याह-न, २५ तत्रापि यथोदिते दर्शने उक्तवत् यथोक्तं दोषादसदर्शनसिद्धेरित्यादि, तदाशङ्काऽनिवृत्तेः- दोषजाशङ्काऽनिवृत्तेः । एकस्य - वस्तुनोऽनेकस्वभावत्व( विवरणम् )
(१७-१८) सूक्ष्मधर्मद्रष्ट्राऽपि प्रमात्रा स्थूराणां ग्रहणादिति । ये हि संस्थानादयः परिस्थूरा धर्मा मन्दालोचनप्रमातृगम्यास्ते कान्त्या दिसूक्ष्मधर्मदृष्ट्याऽपि विशद - ३० लोचनबलेन प्रमात्रा परिच्छिद्यन्त इति ॥
१०
३ 'दृष्ट्वेति सामर्थ्यो, ५] अस्मिन्नेव पृष्ठे ।