________________
१८२
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम् ) तदवसायः। न बनेकप्रदीपावभासितेऽपीन्द्रनीलादी मन्दलोचनादीनां सर्वाकारं समो वा तद्बोधः, तथाऽननुभवात्, निमित्त५ भेदात्। न चासौ न तन्निमित्तः, तद्भावे भावात् , तदभावे चाभावादिति । दीपमण्डलादिदर्शनाद् व्यभिचार इति चेत्, न, तस्य
(स्वो० व्या०) वस्तुस्वभावावसायः । अमुमेवार्थ दृष्टान्तद्वारेणोपदर्शयन्नाह-न हीत्यादि । न यस्मात्
अनेकप्रदीपावभासितेऽपीन्द्रनीलादौ-रत्नविशेषे मन्दलोचनादीनां प्रमा१० तृणाम् , 'आदि'शब्दादमन्दलोचनादिग्रहः । सर्वाकारं तत्तत्प्रदीपावभासापेक्षया
समो वा-तुल्यो वा तद्वोधा-इन्द्रनीलादिबोधः । कुतो नेत्याह-तथाऽननुभवात्-सर्वाकारसमत्वेनाननुभवात् । अननुभवश्च निमित्तभेदात्, प्रदीपावभासितेन्द्रनीलादिज्ञेयधर्मभेदादित्यर्थः । न चासौ-असर्वाकारोऽसमश्चित्रस्तरोधो न तन्निमित्तः-नेन्द्रनीलादिनिमित्तः । कुत इत्याह-तद्भावे-प्रस्तुतेन्द्रनीलादि१५ भावे भावात् , तदभावे चाभावादिति । न तद्भावभावित्वमानं नियमेन तन्निमिसत्वे निमित्तमित्याह-दीपमण्डलादिदर्शनात् 'आदि'शब्दाद् गुञ्जादिग्रहः । व्यभिचारस्तद्भावभावित्वस्य नियमनिमित्तत्वेऽपि । उक्तं च--
"मयूरचन्द्रकाकारं नीललोहितसन्निभम् । सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥"
(विवरणम्) सर्वप्रमातृणां योगपद्येनैव ज्ञानमुत्पद्यते, किन्तु कस्यचित् कियताऽपि कालव्यवधानेन कालस्य च व्यवधानेनापि प्रवर्तमानं कस्यचिद् विलम्बितं वस्त्वध्यवसायकारणं कस्याप्य विलम्बितमिति ॥
(९) अनेकप्रदीपावभासितेऽपीति । यदा एक एवेन्द्रनीलादिर्युगपदेव बहुभिः २७ प्रदीपैः प्रकाश्यते तदा कश्चित् प्रमाता कथाश्चिद् धर्म परिच्छिनत्ति, न तु सर्व एव प्रमातारः सर्वात्मना तं परिच्छिदन्ति, नापि युगपदेवासौ तैर्ज्ञायते, किं तर्हि ? कालभेदेनापि ॥
(१६) 'आदि'शब्दाद् गुञ्जादिग्रह इति । काचादिदोषोपहतलोचना हि प्रमातारो दीपकलिकां गुञ्जासमूहमयी मिव केचिदवलोकयन्ति ॥
१ 'भावे वाऽभावा.' इति क-पाठः । २ 'इति' इति पाठो ग-प्रतो नास्ति । ३ 'हीत्यादिना । न' इति घ-पाठः। ४ तत्तत्प्रतीपावभासा.' इति घ-पाठः। ५ 'एव चन्द्रनीला.'
इति क-पाठः।