________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १८१
(मूलम् ) वाच्यखभावत्वात् , तत्तद्रव्याद्यपेक्षक्षयोपशमभेदतस्ततस्ततस्तत्र तत्राविलम्बितादिप्रतीतिभावात् , अविगानेन तथा व्यवहारसिद्धेः, अस्य चान्यथाऽयोगात्, निमित्तानुपपत्तेः॥
एवं च सर्वशब्दानामपि प्रायो यथोक्तं सर्ववस्तुवाचकत्वमिति। क्षयोपशमानुरूपा च छद्मस्थानां प्रतीतिः । इति न समं सर्वथा वा
(खो० व्या०) प्राय: बाहुल्येनानभिलाप्यधर्मान् विहाय तथा तथा-चित्रसमयादियोगेन सर्वशब्दवाच्यस्वभावत्वात् । एतदेव लेशतः प्रकटयति तत्तदित्यादिना । तच १० तत् तद्रव्यं च तत्तद्रव्यम्-उदकादि, 'आदि'शब्दात् क्षेत्रकालादिग्रहः, तत्तद्द्रव्याद्यपेक्षत इति तत्तद्रव्याद्यपेक्षः, तत्तद्रव्याद्यपेक्षश्चासौ क्षयोपशमभेदश्च भेदः-विशेष इति विग्रहस्तस्मात् । ततस्ततः, प्रक्रमाच्छब्दात् नीरोदकादेः, तत्र तत्र-उदकादौ वस्तुनि अविलम्बितादिप्रतीतिभावात् अविलम्बिताअव्यवहिता, यथा नीरशब्दाद् दाक्षिणात्यस्योदकार्थे तत्प्रतीतिः, विलम्बिता तु तस्यैव १५ अन्यदेशमागतस्य, अन्यथासमयग्रहे उदकशब्दात् तत्रेति इयमादिशब्देन गृह्यते । अन्या च चित्रा सत्येतरादिरूपेति प्रतीतिभावश्च अविगानेन तथा अविलम्बितादित्वेन व्यवहारसिद्धेः कारणात् अस्य च-व्यवहारस्य अन्यथा सर्ववस्तूनामेव प्रायस्तथा सर्वशब्दवाच्यस्वभावतामन्तरेण अयोगात् । अयोगश्च निमित्तानुपपत्तेः। तथाहि-किमत्रान्यन्निमित्तं तत्तत्स्वभावतामन्तरेण? अनिमित्तस्य २० च सदाभावादिदोष इति भावनीयम् ॥
एवं च सर्वशब्दानामपि-नीरोदकादीनां यथोक्तं प्रायस्तथा तथा सर्ववस्तुवाचकस्वभावत्वेन इह प्रायोग्रहणात् मृषाभाषावर्गणोत्थवन्ध्यशब्दव्यवच्छेदः । एवं यथोक्तं सर्ववस्तुवाचकत्वं सर्वशब्दानामपि । क्षयोपशमानुरूपा च छमस्थानां विशेषणान्यथाऽनुपपत्त्या प्रमातॄणां प्रतीतिः। इति कृत्वा न समं- २५ न युगपत् सर्वथा वा-सर्वैर्वा प्रकारैरविलम्बितादिभिः तदवसायः, प्रक्रमाद्वाच्य
(बिवरणम् ) (२३) मृषाभाषावर्गणोत्थवन्ध्यशब्दव्यवच्छेद इति । प्रकृतीश्वरादयो हि शब्दाः प्रकृत्यैव मृषाभाषावर्गणोत्था विवक्षितार्थशून्यतया वन्ध्यस्वभावा इति ॥ (२६) न युगपत् सर्वथा वेति । अयमभिप्रायः-सन्निहितेऽपि विषये न ३० १ तथा चित्र' इति घ-पाठः। २ प्रायस्तथा सर्व०' इति घ-पाठः ।