________________
१८०
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम्) व्यम्, अभिधानविशेषयोजनाऽसिद्धेर्वाच्यतद्वोधयोरेव तत्वभावस्वात् । नहि सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचकप्रयोगः, तथाऽननु५ भवात्, अन्तर्जल्पाकारबोधोपलब्धेः, प्रयोगे उच्चार्यमाणस्य शब्दान्तरत्वात् , तस्यापि तद्वलेनैव प्रवृत्तः, तदसम्पृक्तबोधवताऽनुच्चारणात्। प्रष्ट्रा व्यभिचार इति चेत्, न, तस्यापि प्रश्नाभिलापसम्पृक्तबोधवत्त्वात्, अन्यथा प्रश्नाभावात्, वस्तुनश्चानेकखभावत्वेन तस्याप्यभिधेयत्वात्, सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्द
(स्त्रो० व्या०) तदपि परिहृतमवगन्तव्यम् । कथमित्याह-अभिधानविशेषयोजनाsसिद्धेः कारणात् । असिद्धिश्च वाच्यतद्बोधयोरेव-अर्थतज्ज्ञानयोरेव तत्वभावत्वात् प्रक्रमात् , स्मृत्यनपेक्षाभिधानविशेषप्रवर्तनस्वभावत्वात् । अमुमेवार्थ स्पष्टयनाह-न हीत्यादि । न यस्मात् सर्वत्रैव, वाच्य इति योगः, स्मृत्यपेक्षो वाचक१५ प्रयोगः । कुतो नेत्याह-तथा-स्मृत्यपेक्षप्रयोगरूपत्वेन अननुभवात् कारणात् । कथमननुभव इत्याह-अन्तर्जल्पाकारबोधोपलब्धेः । इह प्रक्रमे तत्त्वतोऽस्यैव स्मृतित्वादित्यर्थः । तथा चाह-प्रयोगे भाषाविषये उच्चार्यमाणस्य शब्दस्य शब्दान्तरत्वात् । अन्तर्जल्पाकारबोधशब्दमधिकृत्य तस्यापि-प्रयोगे उच्चार्यमाणस्य शब्दान्तरस्य तहलेनैव-अन्तर्जल्पाकारबोधशब्दसामथ्येनैव प्रवृत्तेः। २० कुत एतदेवमित्याह-तदसम्पृक्तबोधवता-शब्दासम्पृक्तबोधवता, अविकल्पबोधवतेत्यर्थः, भाणकेनेति प्रक्रमः । किमित्याह-अनुच्चारणात् कारणात् प्रष्ट्रा-पुरुषेण व्यभिचारः, स हि तदसम्पृक्तबोधवान् तत् पृच्छन् समुच्चारयति, अन्यथा प्रश्नायोगः तैदज्ञानादेव । इति चेत्, एतदाशक्याह-न, तस्यापि-प्रष्टुः प्रश्नाभिलापसम्पृक्तबोधवत्त्वात्। इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युप२५ गमेऽविकल्पबोधवतः प्रश्नाभावात् । तस्मात् किञ्चिजानन् किञ्चिदजानानस्तत्रैव पृच्छतीति भावनीयम् । वस्तुनश्च-वाच्यस्य अनेकस्वभावत्वेन हेतुना । तस्यापि-प्रश्नशब्दस्य अभिधेयत्वात् कारणात्। अभिधेयत्वं च सर्ववस्तूनामेव
(विवरणम्) (२७) प्रश्नशब्दत्याभिधेयत्वादिति । प्रभशब्दस्यापि किमिदमित्या[ह देस्तद्वस्तु ३० कथञ्चिद् वाच्यमित्यर्थः ॥
, 'स्मृत्यपेक्ष्यो वाच्ये' इति क-पाठः। २ 'तज्ज्ञानादेव' इति क-पाठः। ३ 'द्रष्टुः प्रश्ना०' इति क-पाठः। ४ 'मितित्यानुदेस्तद् वस्तु' इति ख-पाठः, ‘मित्त्यानुदेस्तद्वस्तु' इति तु च-पाठः ।