________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् १७९
(मूलम् ) केषाञ्चित् तथास्वभावत्वेनाक्षरानुगतबोधबोध्यत्वात् , तेषु अन्यथा नीलादाविव पीतादित्वेन बोधाप्रवृत्तेः, क्षयोपशमसामयतोऽक्षरप्रायोग्यद्रव्यग्रहणाविरोधात्, तथाविधानुभवस्यान्यथाऽनुपपत्तेः,५ खसंवेद्यत्वेन प्रतिक्षेपायोगात् सन्न्यायत एव सिद्धं सविकल्पक प्रत्यक्षमिति ॥
एतेन यत् परेणाभ्यधायि 'इतश्चैतदेवं, अन्यथा खाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् । अस्त्वेवमपि को दोष इति चेत् एतदाशय 'निवृत्तेदानीमिन्द्रियज्ञानवार्ता १० अभिधानविशेषस्मृतेरयोगात्" इत्यादि, तदपि परिहृतमेवावगन्त
(खो० व्या०) तद्धर्मबोधात्-वस्तुसदादिधर्मबोधात् । तथा केषाश्चिद् धर्माणां तथाखभावत्वेन हेतुना अक्षरानुगतबोधबोध्यत्वात् ईहादिगोचराणां विशिष्टमनोऽनुगतत्वोपलक्षणमेतत् । यदि नामैवं ततः किमित्याह-तेषु-अक्षरानुगतबोधबोध्येषु १५ धर्मेषु अन्यथा नीलादाविव वस्तुनि पीतादित्वेन रूपेण बोधाप्रवृत्तेः कारणात् । कुतस्तत्राक्षरप्रायोग्यद्रव्यग्रहणमित्याशङ्कानिरासायाह-क्षयोपशमेत्यादि । क्षयोपशमसामर्थ्यतः कारणात् अक्षरप्रायोग्यद्रव्यग्रहणाविरोधात् । स हि क्षयोपशम एव तादृशो यो भाषाद्रव्याणि ग्राहयतीत्यर्थः । इत्थं चैतदङ्गीकर्तव्यमित्याह-तथाविधानुभवस्य-अक्षरानुगतबोधरूपस्य अन्यथा- २० अक्षरप्रायोग्यद्रव्यग्रहणमन्तरेण अनुपपत्तेः कारणात् । अस्य च वसंवेद्यत्वेन हेतुना प्रतिक्षेपायोगात् । किमित्याह-सन्यायत एव उक्तनीत्या सिद्धं सविकल्पकं प्रत्यक्षमिति ॥ । एतेन-अनन्तरोदितेन न्यायेन यत् परेण-पूर्वपक्षवादिना अभ्यधायि-अभिहितं पूर्वपक्षग्रन्थे'। यदभ्यधायि तदाह-इतश्चैतदेवम् , अन्यथा खाभिधान-२५ विशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् , अस्त्वेवमपि को दोषः इति चेत्, एतदाशङ्ख्य निवृत्तेदानीमिन्द्रियज्ञानवार्ता अभिधानविशेषस्मृतेरयोगादित्यादि व्याख्यातमेवैतदिति न व्याख्यायते ।
(विवरणम्) (१६) बोधाप्रवृत्तेरिति । ये ह्यक्षरानुगतबोधबोध्या धर्मास्तेषु स्वभावादेव ३० निर्विकल्पज्ञानलक्षणो बोधो न प्रवर्तत एवेति ॥
प्रेक्ष्यतां १३९तम पृष्ठ १४०तमं च । २ ईक्ष्यतां १४० तमं पृष्ठम् । ३ १३९तमे पृष्ठे १४•तमे च।