________________
१७८
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम् ) अविगानेन प्रवृत्तेः। अत इदमेकानेकमन्वयव्यतिरेकवदू दीर्घमपि कालसौक्ष्म्यात् तथाऽवभासत इति ॥ ५ आह-एवमपि तत्तद्धर्मावग्रहणादेः सर्वेषामवग्रहादित्वप्रसङ्गः। न, स्थूरेतरधर्मालम्बनावरणभेदतः क्रमभवनेन तथाप्ररूपणात्, तत्त्वतस्त्वयमदोष एव । एवं चावग्रहादिभावे तत्तद्धर्मबोधात्
(स्खो० व्या०) व्यवस्थापकः । न चायं-व्यवहारो भ्रान्तः । कुत इत्याह अविगानेन प्रवृत्तेः १० कारणात् । प्रकृतयोजनया निगमनमाह अत इत्यादिना । अतः-अस्मात् कारणात् इदं-मतिज्ञानसज्ञितमिन्द्रियज्ञानम् , एकानेकमवग्रहादिसमुदायात्मकत्वेन अन्वयव्यतिरेकवदनुवृत्तिव्यावृत्तिखभावं दीर्घमप्यवग्रहादिक्रममावित्वेन कालसौम्यात् हेतोः, तथाऽवभासते, प्रक्रमाद् युगपदिव अवभासते,
न तु युगपदेवेत्यर्थः ॥ १५ आह-एवमपि अवग्रहादिभावे तत्तद्धर्मावग्रहणादेः 'आदि' शब्दात् तत्तद्धर्मासमर्थपर्यालोचनादिग्रहः । सर्वेषाम्-अवग्रहादीनां मतिभेदानामवग्रहादिस्वप्रसङ्गः अन्वर्थयोगेन । 'आदि'शब्दादीहादिग्रहः । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । कुत इत्याह-स्थूरेतरधर्मालम्बनावरणभेदतः कारणात् ।
स्थूरेतराश्च ते धर्माश्च स्थूरेतरधर्माः, इतरे-सूक्ष्माः, त एवालम्बनं एतच्चावरणं चेति २० विग्रहस्तयोर्भेदस्तस्मात् क्रमभवनेन तथाप्ररूपणात्-अवग्रहादित्वेन प्ररूप
णात् । तथाहि-स्थूरधर्मालम्बनोऽवग्रहः, सूक्ष्मधर्मालम्बना ईहादयः, एवमन्यदवग्रहावरणम् , अन्यच्चेहादेः । इह चावरणग्रहणं क्षयोपशमोपलक्षणमवसेयम् । इत्थमुपन्यासस्तु भिन्नमेव तद्बोधावारकमिति निदर्शनार्थम् , क्रमभवनं तु प्रसाधितमेवेतस्तथाप्ररूपणं न्याय्यमेवेति भावनीयम् । तत्वतस्त्वयं सर्वेषामवग्रहादित्वप्रसङ्गः २५ अदोष एव, अन्वर्थयोगतः, तथाघटनादिति । एवं च-उक्तनीत्या अवग्रहा. दिभावे, सन्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति योर्गः । कुत इत्याह-तत्
(विवरणम् ) __ (२२-२३) इत्थमुपन्यासस्तु भिन्नमेव तद्बोधावारकमिति निदर्शनार्थ
मिति । इत्थमुपन्यासस्तु क्षयोपशमभेदभणनं परित्यज्यावरणभेदभणनलक्षणः । ३० पुनः किमर्थमित्याह-भिन्नमेव-पृथगेव तद्बोधावारकम्-अवग्रहादिमतिज्ञानभेदावारकं ज्ञानावरणकर्म इत्येतस्यार्थस्य निदर्शनमिति ॥ १ 'स्वभावं पदार्थमप्यव०' इति क-पाठः। २ प्रेक्ष्यतां १७९ तमं पृष्ठम् ।