________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
सिद्धेः, क्रमेण भावात् सम्पूर्णभवनेऽनियमात् । दृश्यत एवेहाद्यभावेऽपि कचिदवग्रहमात्रम् , तथा निरवायेहा । अनिर्धारणश्चावायः, तथा तदनुभवसिद्धेः । अत एवैकत्वमपि, कथश्चिदेकाधि- ५ करणत्वात् , तत्रैव प्रवृत्तेः, तद्वेद्यधर्माणामितरेतरानुवेधात् । तथा च यदिदं तदा दृष्टमपि नोपलक्षितम्, ईषल्लक्षितमपि न सम्यम् ज्ञातम् , तदिदानीमवधारितम् , इत्यस्ति व्यवहारः । न चायं भ्रान्तः,
(स्वो० व्या०) शक्तिरूपाया मतेः क्वचिदवस्थानम् , तथाऽवधारणं चेति कालान्तरानुभूतविषय-१० गोचरं स्मृतिज्ञानमिति भावः । एवमेतेनाविच्युति-वासना-स्मरणरूपा त्रिविधा धारणेत्युक्तं भवति ॥
न चेत्यादि । न च एकत्वादवबोधस्य अवबोधसामान्यापेक्षया इह-मतिज्ञाने इन्द्रियप्रत्यक्षे चातुर्विध्याभावोऽवग्रहादिर्भेदेन । कुत इत्याह-सर्वथैकत्वासिद्धेः अवबोधस्य । असिद्धिश्च क्रमेण भावात् अवग्रहादीनाम् , तथा १५ सम्पूर्णभवनेऽवग्रहादारभ्य धारणान्तभवने अनियमात् कारणात् । अधिकृतोपदर्शनायाह-दृश्यत इत्यादि । दृश्यत एव लोके ईहाद्यभावेऽपि । 'आदि'शब्दादवायादिग्रहः । कचित्-देवदत्तादौ अवग्रहमात्रम् , तथा निरवायेहा दृश्यते क्वचित् , निर्धारणश्चावायो दृश्यते क्वचित् , तथा तदनुभवसिद्धेःकेवलत्वेनावग्रहादीनामनुभवसिद्धेः कारणात् , न चातुर्विध्याभावः । अत एव २० तथातदनुभवसिद्धेरेव एकत्वमपि अवग्रहादीनाम् । युक्तिमाह-कथञ्चिदेकाधिकरणत्वात् तत्तद्धर्मग्रहणेन । अत एवाह-तत्रैव प्रवृत्तेः-अवग्रहादिगृहीत एव ईहादिप्रवृत्तेः, कथञ्चिदिति वर्तते । एतत्स्पष्टनायैवाह-तद्वेद्यधर्माणाम्-अवग्रहादिवेद्यस्वभावानाम् इतरेतरानुवेधात्-अन्योन्यानुवेधात् । ऐतदेव भावयति तथा चेत्यादिना । तथा च यदिदं तदा-तस्मिन् काले दृष्टमपि सदि-२५ त्यनेनावग्रॅहव्यापारमाह । नोपलक्षितं-न सामीप्येन तदितरधर्मालोचनया लक्षितम् , अनेनेहाव्यापारनिषेधमाह । तथा ईषल्लक्षितमपि ईहया, न सम्यगज्ञातमवायरूपेण तदिदानीं यन्न सम्यग् ज्ञातं तत् साम्प्रतम् , अवधारितंसम्यग् विज्ञाय चेतसि स्थापितमित्यस्ति व्यवहारः तद्वद्यधर्माणामितरेतरानुवेध
१ सम्पूर्णे भवने' इति क-पाठः । २ मात्रः तथा' इति ङा-पाठः । ३ 'एतदेव कथयति' इति उ-पाठः। ४ 'ग्रहापायमाह' इति क-पाठः ।
अनेकान्त. २३