________________
१७६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः अवगृहीते विषयार्थैकदेशाच्छेषानुगमनेन निश्चयविशेषजिज्ञासा चेष्टा ईहा । अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाव्यवसायापनोदोऽवायः धारणा प्रतिपत्तिः,यथाखं मत्यवस्थानमव५ धारणं च । न चैकत्वादवबोधस्येह चातुर्विध्याभावः, सर्वथैकत्वा
(स्वो० व्या०) एवमवग्रहं कथयित्वा ईहास्वरूपं कथयन्नाह-अवगृहीत इत्यादि । अवगृहीत इत्यनेन क्रमं दर्शयति । अवगृहीते सामान्ये ईहा प्रवर्तते । तामाह-विषयाथैकेत्यादि । विषयः-स्पर्शादिः, स एवार्यमाणत्वादर्थो विषयार्थस्तस्यैकदेशः सामान्यम१० निर्देश्यादिरूपं तस्माद् विषयार्थैकदेशात् परिच्छिन्नादनन्तरं स्पर्शमात्रग्रहे तस्य
सर्पमृणालस्पर्शसाधात् शेषानुगमनेन सद्भूतासद्भूतोष्णत्वादिविशेषत्यागोपादानाभिमुख्यरूपेण, न संशये इव सर्वात्मपरिकुण्ठचित्तभावतोऽननुगमेन । किमित्याह-निश्चयविशेषजिज्ञासा चेष्टेति । निश्चीयतेऽसाविति निश्चयः मृणालस्पर्शादिः, स एव विशेष्यतेऽन्यस्मादिति विशेषः, तस्य ज्ञातुमिच्छा जिज्ञासा तया १५ चेष्टा-बोधः स्वतत्त्वात्मव्यापाररूपा ईहा उच्यते ॥ ___एवमीहामभिधायावायमभिधातुमाह-अवगृहीत इत्यादि । अनेनापि क्रममाचष्टे । अवगृहीते विषये-स्पर्शसामान्यादौ ततः सम्यगसम्यगिति मृणालस्पर्श इत्येवमादानाभिमुख्यं सम्यक् , तत्र तद्भावानुगुण्यात् , न अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक् , तत्र तद्भाववैगुण्यात् । इति-एवमीहायां प्रवृत्तायां सत्यां २० ततः किमित्याह-गुणदोषविचारणाव्यवसायापनोदोऽवाय इति । इह
मृणालेऽसाधारणो धर्मो गुणः, तत्रासम्भवी तु दोषः, तयोर्विचारणा-मार्गणा तया व्यवसायः-विमलतरबोधः स एवाफ्नोदः मृणालस्पर्श एवेति निश्चयादपनुदति तत्रेहामिति कृत्वा अवाय इत्ययमेवंविधोऽपनोदोऽवाय इति । अवैतीत्यवायः, निश्च
येन परिच्छिनत्तीत्यर्थः ॥ २५ एवमवायमभिधायाधुना धारणामभिधित्सयाऽऽह-धारणेत्यादि । धारणेति लक्ष्यं
प्रतिपत्तिः-उपयोगाप्रच्युतिः । यथास्वमिति यथाविषयं यो यः स्पर्शादिविषयः मृणालस्पर्शानुभवस्यानाश इत्यर्थः । तथा मत्यवस्थानमित्युपयोगान्तरेऽपि
(विवरणम् ) ३० (१८) तत्र तद्भावानुगुण्यादिति । तत्र-विज्ञाने तद्भावस्य-मृणालस्पर्शसद्भावलक्षणस्यानुगुणत्वात् ।।
१ 'गृहीतविषया.' इति ग-पाठः । २ 'त्वाद् बोधः' इति घ-पाठः । ३ ‘सद्भूतोप्लत्वादि.' इति क-पाठः । ४ 'विचारणाध्यवसाया०' इति ङ-पाठः । ५ 'मृणाले साधारणे धर्मो' इति ङ-पाठः ।