________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् १७५
(मूलम्) तज्ज्ञातृत्वपरिणत्युपपत्तेः, उभयोस्तथास्वभावत्वात् , अन्यथा तदनुपपत्तेः, अतिप्रसङ्गात्, नयनपटलादिहास इव स्थूरावबोधादि, तदानुरूप्यत आविद्वदङ्गनादिसिद्धं तथाविधवस्तुमा वावग्रहेहा-५ चायधारणारूपं मतिज्ञानसज्ञितमिन्द्रियज्ञानमुपजायते "तदिन्द्रियानिन्द्रियनिमित्तम्” इति वचनात् ॥ तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः ।
(खो० व्या०) ज्ञानस्य तज्ज्ञातृत्वपरिणत्युपपत्तेः-प्रस्तुतविषयज्ञातृत्वपरिणत्युपपत्तेः । उप-१० पत्तिश्च उभयोः-विषय-ज्ञानयोः तथास्वभावत्वात्-तज्ज्ञेयत्वतज्ज्ञातृत्वभवनखभावत्वात्, अन्यथा-तत्तत्स्वभावत्वमन्तरेण तदनुपपत्तेः-विषय-विषयिणोः तज्ज्ञेयत्वतज्ज्ञातृत्वपरिणत्यनुपपत्तेः । अनुपपत्तिश्च अतिप्रसङ्गात् तत्तत्स्वभावतामन्तरेण तज्ज्ञेयत्व-तज्ज्ञातृत्वभावे तद्वत् तदन्तरापत्त्यतिप्रसङ्ग इति भावनीयम् । नयनपटलादिहास इव इति निदर्शनम् । स्थूरावबोधादि, 'आदि'-१५ शब्दात् तथाविधचेष्टाग्रहः । तदानुरूप्यतः, प्रक्रमात् क्षयोपशमभावानुरूप्येण, आविद्वदङ्गनादिसिद्धमविप्रतिपत्त्या तथाविधवस्तुग्राह्येव-तज्ज्ञेयत्वपरिणतवस्तुग्राह्येव, न त्वविषयं सदाभावादिप्रसङ्गेन, अवग्रहावायधारणारूपं परिस्थूरजातिभेदेन मतिज्ञानसज्ञितं स्वतत्रे इन्द्रियज्ञानमुपजायते सविकल्पमेव । इन्द्रियज्ञानता चास्य "तदिन्द्रियानिन्द्रियनिमित्तम्" इति २० वचनात् तत्-मतिज्ञानं इन्द्रियानिन्द्रियनिमित्तम् , अनिन्द्रियं-मनः, एतन्निमित्तमिति सविकल्पकमेतत् ॥ __ अवग्रहस्वरूपाभिधित्सयाऽऽह-तत्राव्यक्तमित्यादि । तत्रेति पूर्ववत् , अव्यक्तम्-अस्फुटम् , आलोचनावधारणमिति योगः । तदेव विशिष्यते यथास्वमिति । यथाऽऽत्मीयम् इन्द्रियैः-स्पर्शनादिभिर्विषयाणां-स्पर्शादीनां यथाऽऽत्मीयं २५ यो यस्य विषय इत्यर्थः, आलोचनावधारणमिति आङ् मर्यादायां लोचनंदर्शनम् । एतदुक्तं भवति-मर्यादया सामान्यस्यानिर्देश्यस्य स्वरूपनामादिकल्पनारहितस्य दर्शनम्-आलोचनं तदेवावधारणमालोचनावधारणम् । एतत् अवग्रहोऽभिधीयते । अवग्रहणमवग्रह इत्यन्वर्थयोगादिति ॥
१-२ तस्वार्थाधिगमसूत्रे (अ० १, सू० १४)।