________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
दिकल्पं तज्ज्ञानविशेषकारि विरुद्धचेष्टादिनिमित्तं ततोऽन्यत् तदिति तत्त्ववादः । क्षयोपशम भावश्चास्य कालपरिणत्या विशिष्टा५ नुष्ठानतश्च तत्तत्स्वभावतया नयनपटला दिहासरूपः प्रतिप्राण्येव यथोचितं तथाविध चित्रावबोध लिङ्गावसेयः । तस्मिंश्च सति तत्सामर्थ्यत एव विषयस्य तज्ज्ञेयत्वपरिणतिभावात्, विषयिणोऽपि ( स्वो० व्या० )
-
भेदकस्य आवरणत्वादिति एवं तथाविधनयनपटलादिकल्पं तथाविधं१० स्वच्छं नैकान्ततो बोधविघातकारि नयनपटलं प्रतीतम् । 'आदि' शब्दाच्छ्रोत्रादिमलग्रहः । एतत्कल्पम् - एतत्तुल्यं तज्ज्ञानविशेषकारि तस्य - छद्मस्थप्रमातुर्बोधविशेषकरणशीलं क्षयोपशमतो भावाभावाभ्यामिति ज्ञानावरणव्यापार उक्तो वेदितव्यः । विरुद्धचेष्टादिनिमित्तमित्यनेन त्वादिशब्दात् क्षिसचारित्रमोहनीयादिव्यापार इति । ततः छमस्थप्रमातुः तद्बोधादेर्वा अन्यत् अर्थान्तरभूतं तत् - ज्ञानावरणा१५ दिकर्म इति तत्त्ववादः । क्षयोपशमभावश्चास्य कर्मणः कालपरिणत्या मन्दानुभावस्य विशिष्टानुष्ठानतश्च तीव्रविपाकस्य, अथवा कालपरिणत्या विशिष्टानुष्ठानतश्चेति समुच्चयपक्षः । तत्तत्स्वभावतया तस्य कर्मणः तत्स्वभावतया - कालपरिणत्या दिक्षयोपशमखभावतयेत्यर्थः, नयनपटलादिहासरूपः क्षयोपशमभावस्तदेकान्तानिवृत्तेरित्थं निदर्शनमिति भावनीयम् प्रतिप्राण्येव प्राणिनं २० प्राणिनं प्रति प्रतिप्राण्येव यथोचितमिति क्रियाविशेषणम्, यस्य य उचितः तथाविधचित्रावबोधलिङ्गावसेयः, तथाविधः - उच्चावचादिभेदेन चित्रावबोधस्तत्तद्विषयभेदत एतलिङ्गावसेयः क्षयोपशमभावः । तस्मिंश्च सति क्षयोपशमभावे तत्सामर्थ्यत एव - क्षयोपशमभावसामर्थ्यत एव अवग्रहादिरूपमिन्द्रियज्ञानमुपजायते इति योगः । कथमित्याह - विषयस्य - घटरूपादेस्तज्ज्ञेयत्वपरिणति२५ भावात् विवक्षितेन्द्रियज्ञानज्ञेयत्वपरिणतिभावाद् विषयिणोऽपि - अधिकृतेन्द्रिय( विवरणम् )
1
(१२) क्षयोपशमतो भावाभावाभ्यामिति । क्षयोपशमो हि वेदितानां ज्ञानावरणकर्मपुद्गलानामभावेन शेषाणां तु केषाञ्चिद् विष्कम्भितोदयत्वेनान्येषां चापनीतावारकस्वभावत्वेनोच्यते । अतः क्षयोपशमापत्तौ ज्ञानावरणकर्मपुद्गलानां भावा३० भावौ इति पर्यालोच्योक्तं क्षयोपशमतो भावाभावाभ्यामिति ॥
१७४
[ तृतीयः
१ 'ऽन्यदिति' इति क- पाठः । २ 'भावस्य' इति क-पाठः । ३ 'आवरकत्वा०' इति ङ-पाठः । ४ 'स्वस्थं नैकान्ततो' इति घ- पाठः । ५ 'चेष्टादिनिमित्त्यनेन' इति क-पाठः । ६ 'लिङ्गोऽवसेयः ' इति क - पाठः । ७ 'तस्मिन् सति' इति क-पाठः । ८ 'इतो योगः' इति पाठः । ९ ' अपनीयाचारक०' इति च पाठः ।