________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१७३ (मूलम्) त्मकते सर्वधर्माणामविकारिणी तथाता” इति वचनप्रामाण्याच इत्यनेकधर्मकं वस्तु ॥
इह च ज्ञानावरणाद्याच्छादितः छद्मस्थः प्रमाता, बोधविशेष- ५ दर्शनात् । तस्याहेतुकत्वेऽप्यप्रयोगात् (2), सदाभावादिप्रसङ्गात्, बोधमात्रस्याहेतुत्वात्, भेदकाभावे विशिष्टत्वाभावात्, न्यायतोऽतिप्रसङ्गात् , तद्भावे च तस्यैवावरणत्वात्, इति तथाविधनयनपटला
(स्त्रो० व्या०) सर्वरागादिक्लेशवतां शून्यानात्मकते-तत्त्वतस्तुच्छरूपे सर्वधर्माणां-व्यावृत्ति-१० द्वारपरिकल्पितानामनित्यदुःखादिधर्मतोऽनेकधर्मकता । तथा अविकारिणी-उपादाननिमित्तकृतविकारशून्या तथाता-बुद्धता तथाभावरूपा प्राग्विकारभावेनानेकधर्मता इति वचनप्रामाण्याचेति-एवमनेकधर्मकं वस्तु । एते च सर्व एव वस्तुनोऽनेकविज्ञानाद्युपाधिभेदभिन्नाः स्वभावहेतुभेदा इति गमकाः । तथाहिअनेकविज्ञानजनकत्वं तत्स्वभावः । स च कथञ्चित् तद्भिन्नतयाऽनेकधर्मकतया व्याप्तः, १५ अन्यथा ततस्ततोऽन्यत्वाद्यभावः । एवं शेषेष्वपि हेतुषु भावनीयमिति ॥
इह चेत्यादि । इह च-अनेकधर्मके वस्तुनि जगति वा । किमित्याह-ज्ञानावरणाद्याच्छादितः-तत्पुद्गलप्रतिबद्धसामर्थ्यः, छद्मस्थःप्रमाता-प्राणी । कुत एतदेवमित्याह-बोधविशेषदर्शनात्-बोधभेदोपलब्धेः इह वस्तुनि तस्यबोधविशेषस्य, अहेतुकत्वे सति अयोगात्, अयोगश्च सदाभावादि-२० प्रसङ्गात् । 'आदि'शब्दादभावग्रहः । बोधमात्रस्याहेतुत्वाद बोधविशेष प्रति भेदकाभावे-तदन्यवस्त्वभावे विशिष्टत्वाभावात् बोधमात्रस्य न्यायतः, अतिप्रसङ्गात् सर्वबोधविशिष्टत्वापत्त्या । तद्भावे च-भेदकभावे च तस्यैव
(विवरणम्) (१०-११) व्यावृत्तिद्वारपरिकल्पितानामिति । ये हि घटादावज्रन् तत्तदर्थ-२५ व्यावृत्तिवशेन मूर्तत्व-प्रमेयत्व-सत्त्वादयो धर्मास्ते शून्या वन्ध्यासुतवत् स्वभावरहिताः। अत एवानात्मानः क्षणान्तरेष्वनन्वयिनः । अत्रापि शब्दद्वयोचारणान्यथाऽनुपपत्तेरभिधेयभेदेन स्वभावद्वयं धर्माणां सिद्धमिति ॥ . (१२) तथाभावरूपेति । निर्मलज्ञानसन्तानरूपा ॥
१'भेदतो.' इति क-पाठः। २ 'तद्भिन्नया' इति घ-पाठः। ३ 'धर्मतया' इति क-पाठः । ४ तदर्थ.' इति क-पाठः । ५ 'क्षणान्तरेष्वतत्त्वयिनः' इति च-पाठः। ६ "शब्दे द्वयोचा. रणेऽन्यथा.' इति क-पाठः ।