________________
१७२
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम्) दग्रत्वेन तथा तज्ज्ञानरञ्जनात्, उभयोस्तत्वभावत्वात्, युगपत् प्रवृत्त्यविरोधात्, सुखादिज्ञाने तथाऽनुभवसिद्धत्वात् , तत्तद्वचन५ सिद्धेश्च "आविर्भावतिरोभावधर्मकं वस्तु न कृतार्थे प्रकृतिप्रवृत्तिः तद्विरागात् तवृत्तिसङ्ख्याच" इति वचनप्रामाण्याच ॥ तथा "अनित्यता सर्वसंस्कृतानां दुःखता, सर्वसाश्रवाणां शून्याना
(स्वो० व्या०) ज्ञानप्रसङ्गः । अथ च ज्ञानेन तदात्मीयमनुभूयत इति । युक्त्यन्तरमाह-तदुदग्र१० त्वेन-सुखाधुदग्रत्वेन तथा-एकलोलीभावेन तज्ज्ञानरञ्जनात्-सुखादिज्ञानरञ्जनात् । एतच्चैवमित्थमित्याह-उभयोः-सुखादिज्ञानयोः तत्स्वभावत्वात्रख्यरञ्जकस्वभावत्वात् । अत एव युगपत् प्रवृत्त्याविरोधात्, सुखादीनां ज्ञानस्य चेति प्रक्रमः । अविरोधश्च सुखादिज्ञाने तथा-कथञ्चिद् मिन्नसुखादिवेदकत्वेन
अनुभवसिद्धत्वात् कारणात् , अमीषां अनुभव इति योगः । हेत्वन्तरमाह१५ तत्तद्वचनसिद्धेश्च हेतोः, अनेकधर्मकं वस्तु । तस्मिंस्तस्मिन् साङ्ख्यादिवचने
यथा सिद्धं तत् तथाऽभिधातुमाह-आविर्भावेत्यादि । आविर्भावः-प्रकटभावः, तिरोभावस्त्वप्रकटभावः, एतद्धर्मकं वस्तु प्रधानाख्यमित्यनेकधर्मकता । तथा न कृतार्थे पुंसि प्रकृतिप्रवृत्तिर्महदादिभावेन तद्विरागात-पुरुषविरागात् तद्वृत्तिसङ्ख्याच-प्रकृतिवृत्तिसङ्ख्याच, ततश्चाविरक्ते प्रवृत्तिर्विरक्ते वृत्तिसङ्क्षयश्च, २० पुरुषोऽपि विरक्तश्चाविरक्तश्चेत्यनेकधर्मकता इति वचनप्रामाण्यात् ।।
तथाऽनित्यता-नश्वरता सर्वसंस्कृतानां-सर्वकृतकानां दुःखता-बाधायुक्तता दुःखपरिणाम-दुःखसंस्कार-दुःखापेक्षया यथासम्भवं सर्वसाश्रवाणां--
(विवरणम्) (९) अथ च ज्ञानेन तदात्मीयमनुभूयत इति । अयमत्राभिप्रायः-यथा २५ ज्ञानेन कथञ्चिद् भिन्नमपि स्वसत्त्वमनुभूयते, एवं सुखादयोऽपि धर्मव्यतिरिक्ता अपि ज्ञानेन वेद्यन्त इति ॥
(२२) दुःखपरिणामदुःखसंस्कारदुःखापेक्षयेति । यत् कर्म इहलोकपरलोकयोदुःखफलं तद् दुःखं यथा धीवरादीनां,परिणामदुःखं यत् तथाविधानाचारवतां सम्प्रति सुखरूपतया वेद्यमानमपि परिणतौ नरकादिफलं यथा तथाविधभोगिनां, संस्कारदुःखा३० पेक्षयेति यद् बाह्यसुखकारणसम्पत्तावपि शोकविषादान्तरोप्लववशेनास्वास्थ्यमिति ॥
१ तत् तद्वृत्ति' इति ग-पाठः। २ 'सर्वथास्त्रवाणां' इति उ-पाठः। ३ 'ज्ञाने न च तदा.' इति क-पाठः। ४ 'भूय इति' इति क-पाठः । ५ 'भागिनां संस्कारदुःखं यद् बाह्यं सुख.' इति च-पाठः। ६ 'यत् कर्म इहपरलोकयोर्दुःखफलम्' इति क-पाठः।