________________
अधिकार: ]
स्वोपज्ञव्याख्या मुनिचन्द्रीय विवरणयुतम्
(मूलम् )
१७१
जनकानामनन्तरजनकत्वायोगात्, तत्स्वभावादिभेदात् तद्भेदेन च तत्तजनकत्वे न तदेव तत् ॥
एवं जनकत्वेsपि योजनीयमिति तच्चित्रस्वभावता । सुखदुःखा- ५ दिहेतुत्वाच्च स्वभावभेदेन सुखादिजनकत्वात् तेषां चाह्रादादिरूपत्वेन ज्ञानादन्यत्वात्, तत्खरूपेण बाह्यावेदनात्, ज्ञानभावेऽपि कचित् तदभावात् तथाऽनुभवसिद्धत्वात् । अज्ञानत्वे कथममीषामनुभव इति चेत्, सत्त्वादिवत् कथञ्चिज्ज्ञानाभेदात्, तदु
( खो० व्या० ) इति चेत्, एतदाशङ्कयाह - न, परम्पराजनकानां हेतूनाम् अनन्तरजनकत्वायोगात् । अयोगथ स्वभावादिभेदात् । स्वभावभेदः प्रतीतः । 'आदि' शब्दात् कालभेदपरिग्रहः । तद्भेदेन च - स्वभावादिभेदेन च तत्तजनकत्वे तेषाम् - अनन्तरपरम्पराहेतूनां तज्जनकत्वे, प्रक्रमाद् विवक्षितकार्यजनकत्वे । किमित्याह - न तदेव तत् नानन्तरजन्यत्वमेव परम्पराजन्यत्वमिति निगमनम् ॥ १५
एवमित्यादि । एवम् उक्तनीत्या जनकत्वेऽपि योजनीयम् । पारम्पर्येणानेकजनकत्वादधिकृतवस्तुनः, अन्यथा तद्भावासिद्धेः ततोऽनेकभावासिद्धेः, परम्पराहेतुतोऽपि भावादनेकेषाम् । एवं शेषमपि स्वधिया योजनीयम् । इति एवं तच्चित्रस्वभावता तस्य वस्तुनश्चित्रस्वभावता, अनेकधर्मकत्वमित्यर्थः ।
-
१०
हेत्वन्तरमाह - सुखदुःखादिहेतुत्वाच्च, अनेकधर्मकं वस्तु । कथमेतदेवमि - २० त्याह-स्वभावभेदेन सुखादिजनकत्वाद् वस्तुनः । 'आदि' शब्दाद् दुःखमोहज्ञानादिग्रहः । न ते तत्कृतज्ञानतोऽन्ये इत्याशङ्कापोहायाह तेषां व सुखादीनाम् आह्लादादिरूपत्वेन हेतुना, आह्लादरूपं सुखम् परितापरूपं दुःखम्, असंवत्स्वभावो मोह इति कृत्वा । किमित्याह - ज्ञानादन्यत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह -- तत्स्वरूपेण - आह्रादादिलक्षणेन ज्ञानेनैव बाह्यावेदनात् । २५ इतश्चैतदेवं ज्ञानभावेऽपि क्वचित्-विरक्तादौ तदभावात् - आह्लादाद्यभावात् । अभावश्च तथाsनुभवसिद्धत्वात्, आह्लादाद्यभावेनापि भाववेदनादित्यर्थः । अज्ञानत्वे सति कथममीषां सुखादीनाम् अनुभवः ? । इति चेत्, एतदाशङ्कयाह-सत्त्वादिवदिति निदर्शनम् । 'आदि' शब्दाज्ज्ञेयत्वादिग्रहः । कथञ्चिज्ज्ञानाभेदात् । तथाहि न सत्त्वमेव ज्ञानम्, सत्त्वमात्रत्वे ज्ञानस्य सर्वत्र ३०
;
१ ' तदुग्रत्वेन' इति क- पाठः । २ सर्वत्रायमेव पाठः । ३ 'देव किमित्याह' इति क-पाठः । ४ ' शब्दात् प्रमेयत्वादि०' इति ङ-पाठः ।