________________
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम्) एकान्तैकत्वाभावात्, पारम्पर्येणानेकजन्यजनकत्वाच, अन्यथा तद्भावासिद्धेः, परम्पराहेतुतोऽपि भावात्, तथाविधतद्भावभावि५ त्वोपपत्तेः, पुष्कलस्य चानन्तरेणाप्ययोगात् तदा तद्भावाभावादिति। अनन्तरजन्यत्वमेव परम्पराजन्यत्वमिति चेत्, न, परम्परा
(खो० व्या०) कटादीनां पटभावापत्तिः। पटकटादिसमुदायान्यत्वैकस्वभावं कथं पटान्यत्वैकखभावमुच्यते इत्युच्यते-अचित्रस्यानेकान्यत्वैकत्वायोगात्। तथा चाह-अचित्रस्येत्यादि । १० अचित्रस्य-विवक्षितवस्तुन एकखभावस्य अनेकान्यत्वैकत्वायोगे अनेकेभ्यः
पटादिभ्यः अन्यत्वमनेकान्यत्वं तस्यैकत्वमनेकान्यत्वैकत्वं तस्यायोगे, उक्तवत् तदेकत्वप्रसङ्गेन तस्मिन् सति तचित्रतया-विवक्षितवस्त्वेकखभावस्य चित्रतया । किमित्याह-एकान्तैकत्वाभावात् विवक्षितवस्तुनः, एकस्वभावस्येति प्रक्रमः ।
हेत्वन्तरमाह-पारम्पर्येणानेकजन्यजनकत्वाच अनेकधर्मकत्वं वस्तुन इति । १५ पारम्पर्येण-एकादिव्यवधानापेक्षया, जन्यश्च जनकश्च जन्यजनकः, अनेकेषां जन्यजनकः अनेकजन्यजनकस्तद्भावस्तस्मात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथाएवमनभ्युपगमे तद्भावासिद्धेः-अधिकृतवस्तुभावासिद्धेः । असिद्धिश्च परम्पराहेतुतोऽपि सकाशाद् भावात् अधिकृतवस्तुनः । न हि पितामहाद्यभावेऽपि पौत्रादिभाव इति भावनीयम् । इहैव युक्तिमाह-तथाविधतद्भावभावित्वोप२. पत्तेः तथाविधम्-एकादिव्यवधानवच तत् तद्भावभावित्वं च-परम्पराकारणभावभावित्वं चैतदेवोपपत्तिस्ततः । एतदप्यङ्गीकर्तव्यमित्याह-पुष्कलस्य च तद्भावभावितस्य अनन्तरेणापि कारणेन सह अयोगात् । अयोगश्च तदा-कारणादिकाले तद्भावाभावात्-कार्यादिभावाभावात् , अन्यथा जन्यजनकत्वाभावः सव्येतरगोविषाणवदिति । अनन्तरजन्यत्वमेव कार्यस्य परम्पराजन्यत्वम् ।
(विवरणम्) (८) कटादीनां पटभावापत्तिरिति । तथाहि-पटः पटान्यत्वकस्वभावात् स्तम्भादेः परार्थात सकाशात् अन्यत्वे सति पटः सम्पन्न एवं कटादिरपि पटः (?) प्राप्नोति, तस्यापि पटान्यत्वकस्वभावात् स्तम्भादेः सकाशात् व्यावृत्तत्वात् । न चैतद् दृष्टमिष्टं वा । अतः सामर्थ्यादभ्युपगन्तव्यमिदम् । यावत्प्रमाणेभ्यः पदार्थेभ्यः ३० पटो व्यावर्तते, तावन्तस्तस्य व्यावर्तका स्वभावभेदा इति ।
१ 'तयोर्विवक्षित' इति क-पाठः । २ 'पिताधभावे' इति ङ-पाठः। ३ 'त्वापत्तेः' इति
२५
घ-पाठः।