________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१६९ (भूलम्) तदेकत्वप्रसङ्गात् , तदन्यत्वहेतुत्वेनाविशेषात्, अन्यत्वस्य चा. कल्पितत्वात्, कल्पितत्वे तत्त्वतस्तदभावापत्तेः॥
खहेतुत एव तत् तदन्येभ्योऽन्यत्वैकखभावं भवतीति चेत्, न,५ पटान्यत्वकस्वभावान्यत्वे पटवत् कटादीनां तद्भावापत्तेः, तथाखभावादन्यखभावत्वात् , अचित्रस्यानेकान्यत्वैकत्वायोगे तचिन्नतया
(स्वो० व्या०) भ्युपगमे स्वभावभेदमन्तरेण ततस्ततो व्यावृत्त्यभ्युपगम इत्यर्थः, तदेकत्वप्रसङ्गात्-व्यावर्त्यमानैकत्वप्रसङ्गात् । प्रसङ्गश्च तदन्यत्वहेतुत्वेनाविशेषात् १० तस्य-वस्तुनो व्यावृत्तिमतः अन्यत्वहेतुत्वेनाविशेषाद् व्यावय॑मानानाम् । तद्धि तेभ्यो. ऽन्यत् , तदन्यत्वस्य च त एव हेतवः, यदेव चैकमपेक्ष्य तदन्यत्वं तदेवापरमपि, न चैतत् तदभेदमन्तरणेति हृदयम् । किमनेन कल्पितेनेत्याशङ्कानिरासायाह-अन्यत्वस्य चाकल्पितत्वात् तस्य व्यावृत्तिमतो व्यावर्त्यमानेभ्यः । इत्थं चैतदङ्गीकर्तव्यमित्याह-कल्पितत्वे तदन्यत्वस्य तेभ्यः तत्त्वतः-परमार्थतः तदभावा-१५ पत्तेः तस्य-व्यावृत्तिमतोऽभावापत्तेः, व्यावर्त्यमानाऽनन्यत्वेन ॥ __ पराभिप्रायमाह-वहेतुत एव तत्-वस्तु प्रस्तुतं तदन्येभ्यो व्यावय॑मानेभ्यअन्यत्वकस्वभावम् अन्यत्वमेवैकः स्वभावो यस्य तत् तथा भवति। इति चेत्, एतदाशङ्कयाह-नेत्यादि । ने-नैतदेवम् । कुत इत्याह-पटान्यत्वकस्वभावान्यत्वे पटान्यत्वमेवैकः स्वभावो यस्य वस्तुनः-अधिकृतस्य तत् पटान्यत्वैकस्वभावं तस्मादः २० न्यत्वं पटान्यत्वकस्वभावान्यत्वं तस्मिन् पटान्यकत्वकस्वभावान्यत्वे सति पटव दिति निदर्शनम् , कट-शकटादीनां भावानां तद्भावापत्तेः-पटभावापत्तेः । आपत्तिश्च तथाखभावात्-पटान्यत्वैकस्वभावात् अधिकृतवस्तुनः; अन्यखभावत्वात्
(विवरणम्) (११-१२) तद्धि तेभ्योऽन्यत् , तदन्यत्वस्य च त एव हेतव इति । तत्- २५ अघ(प)टादि वस्तु हि[:]-यस्मात् तेभ्यः-व्यावर्तमानेभ्यः पटादिभ्योऽन्यत्-भिन्नं वर्तते । यदि नामैवं ततः किमिति चेत् उच्यते-अन्यत्वस्य च त एव-घंटादयो हेतवः, न तु घटप्रतिबद्धा अपि स्वभावाः ।।
१एवैतत्तदाऽन्येभ्योऽन्यः' इति क-पाठः । २ 'तदन्यत्वं च' इसि क-पाठः। ३ 'यदैव' इति क-पाठः । ४ 'मतो भावा.' इति क-पाठः। ५ 'न' इति पाठो नास्ति घ-पुस्तके । ६ 'पटादयो' इति क-पाठः। ७ 'ननु घट.' इति क-पाठः ।
- अनेकान्त० २२