________________
१६८
अनेकान्तजयपताकाख्यं प्रकरणम् [सृतीयः
(मूलम्) 'तत्तन्निमित्तत्वात् , तद्भावभावित्वानुविधानात्। मरावल्पभावे मह
दर्शनमनिमित्तमिति चेत्, न, अल्पस्यैव तन्निमित्तत्वात् , तद५ भावेऽभावाद् विप्रकर्षाद्युपप्लवात् तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः। ततस्ततोऽन्यत्वाच्च, खभावभेदेन व्यावृत्तेः, अन्यथा
(स्वो० व्या०) मनभ्युपगमे तदभेदप्रसङ्गात्-योग्ययोगिनोरभेदप्रसङ्गात् । प्रसङ्गश्च द्वयोरपियोग्ययोगिनोः तत्तन्निमित्तत्वात् तस्याः-उपलब्धेः तन्निमित्तत्वात्-अधिकृतवस्तु१० निमित्तत्वात् । तन्निमित्तत्वं च तद्भावभावित्वानुविधानात्-अधिकृतवस्तुभावभावित्वानुकरणात् । अतत्रमेतदग्दिशामित्येतदेवाह मरावित्यादिना । मरौ विषये अल्पभावे अल्पस्य-छगणादेः सत्तायां महदर्शनं महतः-वत्सादेरिव दर्शनम् अनिमित्तम् , अल्पस्याप्रतिभासनेन निमित्तत्वायोगात् । इति चेत् , एतदाशङ्कयाहन, अल्पस्यैव-छगणादेः तन्निमित्तत्वात्-महद्दर्शननिमित्तत्वात् । तन्निमित्तत्वं १५ च तदभावेऽभावात्-अल्पाभावेऽभावाद् महद्दर्शनस्य । कथमिदमतत्प्रतिभासी. त्याह-विप्रकर्षाद्युपप्लवात् । विप्रकर्षः-देशविप्रकर्षः । 'आदि'शब्दात् तथाविधज्ञानावरणक्षयोपशमपरिग्रहः, ताभ्यामुपप्लवाद् भ्रान्तेः । उपप्लवश्व तत्तत्वभावत्वात् तस्य-विप्रकर्षादेः तत्स्वभावत्वात्-उपप्लवजननस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तदनुपपत्तेः। अन्यथा--एवमनभ्युपमगे तदनुपपत्तेः२० उपप्लवानुपपत्तेः, न ह्यसावन्यनिमित्तोऽनिमित्तो वेति भावनीयम् । मूलसाध्य एव हेत्वन्तरमाह-ततस्ततोऽन्यत्वाच । ततस्ततः सजातीयेतरादेविचित्राद् वस्तुनः अन्यत्वाच्च कारणादनेकधर्मकं वस्त्विति । यदि नामैवं ततः किमित्याहखभावभेदेन व्यावृत्तेः ततस्ततः । किमित्येतदेवमित्याह--अन्यथा-एवमन
(विवरणम् ) २५ (११) अतन्त्रमेतदग्दिशामिति । अतन्त्रम्-अनायत्तमेतत्-वस्तुभावभाविस्वानुकरणमर्वाग्रशां प्रमातृणां सम्बन्धिनः, ज्ञानस्येति गम्यते ॥
(१२) वत्सादेरिव दर्शनमिति । 'मरुभूमौ हि अल्पोऽपि छगणको भूमिस्वाभाव्यादेव वत्सक इति प्रतिभासते दूरात् तम् ।
१ 'तत्तन्निमित्तत्वात' इति ग-पाठः। २'ततः किमि०' इति क-पाठः ।