________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१६७
अन्येनोपकाराद्ययोगादिति । एवमभ्यासवासनोपगमान्नात्यन्तासत एवोत्पादः, सत्यस्मिंस्तयोर्वानात्रत्वात्, तदात्वातिरेकेण आकालं तदभावात्, पूर्वस्मादत्यन्तभिन्नत्वात्, तथापि तदभ्यासादावति- ५ प्रसङ्गादितीन्द्रियजमेवैतत् ॥ __ एतचानेकधर्मके वस्तुनि ज्ञानावरणाच्छादितस्य प्रमातुस्तथाविधक्षयोपशमभावत उभयोस्तथाखभावत्वेनावग्रहे हावायधारणारूपं प्रवर्तत इति । अनेकधर्मकत्वं च वस्तुनोज्नेकविज्ञानजनकत्वात्, योग्ययोगिभिर्भेदेनोपलब्धेः, अन्यथा तदभेदप्रसङ्गात्, द्वयोरपि ०
(खो० व्या०) रिक्तरूपान्तराभावात् । अभावश्च अन्येन-वस्तुव्यतिरिक्तेन उपकाराद्ययोगात्। ततश्च वस्तुग्रहणभेदकृतमेवापटीयस्त्वाद् यस्येति सांशानेकस्वभावमेतदिति स्थितम् । एवमभ्यासवासनोपगमात् कारणात् किमित्याह-नात्यन्तासत एव उत्पादः । कुत इत्याह-सत्यस्मिन्-अत्यन्तासत उत्पादे तयोः-अभ्यास- १५ वासनयोझिात्रत्वात् । वाङ्मात्रत्वमेवाह-तदात्वातिरेकेण-तदाभावातिरेकेण आकालं यावदपि कालस्तावदपि तदभावाद्-अत्यन्तासत उत्पद्यमानस्याभावात् । अभावश्च पूर्वस्मादत्यन्तभिन्नत्वात् अत्यन्तासत उत्पद्यमानस्य । तथापि-एवमपि तदभ्यासादौ तस्य-अनुभवस्याभ्यासवासनाभावेऽतिप्रसङ्गात् -अनुभवान्तरस्याप्यभ्यासादिशून्यस्य तद्भावप्रसङ्गात् । इतीन्द्रियजमेवैतत्- २० 'विज्ञानमाविष्टाभिलापमहिरहिरित्येवमादि' 'इत्यधिकारोपसंहारः ।।
एतच्चेत्यादि । एतच्च-अधिकृतज्ञानम् अनेकधर्मके वस्तुनि-घटरूपादौ ज्ञानावरणाच्छादितस्य प्रमातुः-जीवस्य तथाविधक्षयोपशमभावतःद्रव्यादिनिमित्तचित्रक्षयोपशमभावात्, उभयोः-प्रमातृ-विषययोः तथाखभावत्वेन-चित्रग्राह्यग्राहकस्वभावत्वेन हेतुना अवग्रहेहावायधारणारूपं प्रवर्तत २५ इति ग्रहणकवाक्यसमुदायार्थः । अवयवार्थ तु खयमेवाह ग्रन्थकारः अनेकधर्मकत्वं च वस्तुन इत्यादिना ग्रन्थेन । अनेकधर्मकत्वं च वस्तुनः-घटरूपादेः । कुत इत्याह-अनेकविज्ञानजनकत्वात् अनेकेषां-विज्ञानजनकमनेकविज्ञानजनक तद्भावस्तस्मात् । एकेनैव स्वभावेनैवं भविष्यतीत्याह-योग्ययोगिभिः प्रमातृभिः भेदेनोपलब्धेः सम्पूर्णासम्पुर्णधर्मसाक्षात्कारणत्वेन दर्शनादित्यर्थः। अन्यथा-एव-३०
१'तभेद०' इति क-पाठः । २ प्रेक्ष्यता १६४तमं पृष्ठम् । ३ 'उभययोः' इति अ-पाठः । ४ 'साक्षात्करणेन' इति घ-पाठः।