________________
१६६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) कमिति, किश्चानेन । निरंशैकस्वभावत्वाच वस्तुनोऽनुभवोऽपि न पटीयानपटीयांश्च युज्यते, अत्यन्तासत उत्पादेन सर्वथा हेत्व५नन्वयतोऽभ्यासवासने च; अन्यथाऽसम्पूर्णवस्तुग्रहणमपि स्यात्, तथा च न निरंशैकखभावमेवैतत् । न चान्यथा अपटीयस्त्वादि, अनुभवस्य तन्मात्रग्रहणत्वात्, तदतिरिक्तरूपान्तराभावात्,
(स्वो० व्या०) हेतुना, स्खलक्षणमात्रग्राहकत्वेनेत्यर्थः, न तद्भिन्नशक्तिक-नाक्षज्ञानभिन्नशक्तिक१० मिति । किश्चानेन-परिकल्पितेन तथाविधविकल्पोत्पत्तौ समानमेतदक्षज्ञानेनेति भावः॥
पक्षान्तरपरिजिहीर्षयाऽऽह-निरंशैकखभावत्वाच कारणाद् वस्तुनोऽनुभवोऽपि, प्रक्रमात् तदनुभवः, न पटीयानपटीयांश्च युज्यते, निरंशैकस्वभावत्वाद् वस्तुनस्तथाविधैकखभावस्यैवास्य भावात् । तदेतद्भेदोऽपि न तथाविध१५ विकल्पोत्पत्त्यनुत्पत्तिनिमित्तमिति प्रकृतयोजना । तथा अत्यन्तासत उत्पादेन
हेतुना अनुभवस्य सर्वथा हेत्वनन्वयतः कारणात् तत्तथाभावाभावेन अभ्यासवासने च, “अनुभवस्य न युज्यते' इति वर्तते, पौनःपुन्यकरणमभ्यासः, पूर्वानुभूतं संस्कारानुवेधश्च वासना, नैते अत्यन्तासत उत्पादे भवत इति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे असम्पूर्णवस्तुग्रहण२० मपि स्यात् अनुभवापटीयस्त्वादिभावेन । यदि नामैवं ततः किमित्याह-तथा
च न निरंशैकखभावमेवैतत्-वस्तु, किन्तु सांशानेकस्वभावमिति । न चान्यथा-उक्तं प्रकारं विहाय अपटीयस्त्वादि, 'आदि'शब्दात् पटीयस्त्वग्रहः, अनुभवस्य अधिकृतस्य । कुत इत्याह-तन्मात्रग्रहणत्वात्-वस्तुमात्रग्रहणस्वरूपत्वात् , अनुभवस्य तदतिरिक्तरूपान्तराभावात्-तन्मात्रग्रहणतत्त्वाति
(विवरणम्) (१३) तदनुभव इति । तस्य-स्खलक्षणस्यानुभवः, परो हि तीव्रः स्खलक्षणानुभवो विकल्पज्ञानहेतुः, न पुनरितर इति प्रतिपद्यते ॥
(१४-१५) तदेत दोऽपि न तथाविधविकल्पोत्पत्त्यनुत्पत्तिनिमित्तमिति । तत्-तस्मात् कारणात् एतद्भेदोऽपि-अनुभवभेदोऽपि न-नैव तथाविधस्य-विद्युदा३० द्यध्यवसायरूपस्य विकल्पस्य ये उत्पत्त्यनुत्पत्ती तयोनिमित्तं-कारणं पटुरनुभवो विकल्पनिमित्तं 'अपटुश्व न निमित्तमिति न भवतीत्यर्थः ॥
१ 'अपटुः खननिमित्त.' इति च-पाठः ।
२५