________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
स मानसाभावतोऽभावो नाक्षव्यापाराभावत इत्यतोऽदोष इति चेत्, न अत्र किञ्चिदुभयसिद्धं प्रमाणमिति यत्किञ्चिदेतत् । तथाविधविकल्पानुपपत्तिरेव प्रमाणमिति चेत्, न, अस्या एव ५ विवादगोचरापन्नत्वात् । अत एव एतन्निर्णीतेरयमदोष इति चेत्, न, चक्षुर्व्यापाराभावेऽप्यस्याः समानत्वादिति ॥
fear इदमपि मानसं तद्विषयमात्र ग्राहकत्वेन न तद्भिन्नशक्ति
अधिकार: ]
( स्वो० व्या० ) जन्मभावेऽपि तदभावात् - आविष्टाभिलाप विज्ञानाभावात् । स मानसा भावतः १० - स्वविषयानन्तरविषय सहकारीन्द्रियज्ञानजनितमानसाभावेन अभाव:, आविष्टाभिलापविज्ञानाभावः । नाक्षव्यापाराभावतः - नेन्द्रियव्यापाराभावेन इत्यतः - अस्मात् कारणात् अदोषः, 'आद्यविद्युत्सम्पातादौ तद्भावेऽपि तदभावात्" इत्ययमनपराधः । इति चेत्, एतदाशङ्कयाह - नात्र 'स मानसाभावतः' इत्यादौ किञ्चिदुभयसिद्धं वादिप्रतिवादिप्रतिष्ठितं प्रमाणम् अक्षव्यापारापोहेन मानस- १५ निबन्धनत्वव्यवस्थापकम् । इति एवं यत्किञ्चिदेतत् असारमित्यर्थः । तथाविधेत्यादि । तथाविधविकल्पानुत्पत्तिरेव - आविष्टाभिलापविज्ञानानुत्पत्तिरेवेत्यर्थः । प्रमाणमक्षव्यापाराभावेन मानसनिबन्धनत्वव्यवस्थापकत्वम् । इति चेत्, एतदाशवाहन, अस्या एव तथाविधविकल्पानुत्पत्तेरेव विवादगोचरापन्नत्वात् विप्रतिपत्तिविषयत्वादिति योऽर्थः । अत एवेत्यादि । अत एव - २० तथाविधविकल्पानुत्पत्तेरेव सकाशात्, एतन्निर्णीते:- 'स मानसामावतोऽभावो नाक्षव्यापाराभावतः' इत्येतन्निश्चयात् कारणात् अयम् - अनन्तरोदितः न, 'अस्या एव विवाद गोचरापन्नत्वात्' इति अदोषः - अनपराधः । इति चेत् एतदाशङ्कयाह - न, चक्षुर्व्यापाराभावेऽप्यस्याः - अत एव तन्निर्णीतेः समानत्वात्तुल्यत्वादिति । तथाहि अत एव तथाविधविकल्पानुपपत्तेरेव सकाशात्, एतन्निर्णीतेः २५ सोऽक्षव्यापाराभावतोऽभावो न मानसाभावतः इत्येतन्निश्चयात् कारणात् इत्यपि वक्तुं शक्यत्वात् तुल्यत्वमिति भावनीयम् ||
3
१ प्रेक्ष्यतां १६४तमं पृष्ठम् ।
१६५
"
अभ्युच्चयमाह किश्चेत्यादिना । किञ्च इदमपि मानसं स्वविषयानन्तरेत्यादि - लक्षणवत् तद्विषयमात्र ग्राहकत्वेन प्रक्रमादक्षज्ञान विषयमात्र ग्राहकत्वेन
3
२ 'भावतो भावो' इति क- पाठः । ३ 'यत एव' इति क- पाठः ।