________________
१६४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) अतः सामान्येनैवोभयचित्तप्रतिषेधोपपत्तेः, आप्तवचनप्रामाण्यात् , तथाऽनुभवभावतः सिद्धमिन्द्रियद्वारानुसार्येव विज्ञानमा. ५ विष्टाभिलापम् 'अहिरहिः' इत्येवमादि ॥
न चेदं नेन्द्रियनिमित्तम् , तद्भावभाषित्वानुविधानात्, अन्धादेरनुत्पत्तेः । इन्द्रियादविकल्पजन्म, तत इंदमिति, तदनुत्पत्तिरिति चेत्, न, आद्यविद्युत्सम्पातादौ तद्भावेऽपि तदभावात् ।
(स्वो० व्या०) १० स्वसंविदस्तद्व्यतिरिक्ततरविकल्पदोषापत्तेः-असदंशव्यतिरिक्ताव्यतिरिक्तविकल्पदोषप्रसङ्गात् । सा हि स्वसंविदसदंशाद् विकल्पानुवेधकाद् व्यतिरिक्ता वा स्यादव्यतिरिक्ता वा । व्यतिरिक्तत्वे तस्येति सङ्गायोगः। अव्यतिरिक्तत्वे तस्यापि वस्तुता, स्वसंविदो वा अवस्तुतेत्यादि । अन्यथा-एवमनभ्युपगमे तदयोगात्-तत्स्वसंविदोऽ
योगात् । तथाहि-यदि सा ततो न व्यतिरिक्ता नाप्यव्यतिरिक्ता न विकल्प एवेति, १५ कुतस्तत्वसंविदित्यालोचनीयम् । इति-एवं यत्किञ्चित्-असारमेतत् यदुत 'तत्स्वसंविदो वस्तुत्वेनायमनपराधः" इति ॥
अपान्तरालपूर्वपक्षमधिकृत्योपसंहारमाह अत इत्यादिना । अतः-अस्मात् कारणात् सामान्येनैवोभयचित्तप्रतिषेधोपपत्तेः, प्रक्रमादधिकृतसूत्रे 'अस्थानमेतत्" इत्यादौ सविकल्पाविकल्पोभयचित्तप्रतिषेधोपपत्तेः । किमित्याह-आप्तवचनप्रामा२० ण्यात् कारणात् , तथाऽनुभवभावतः-एकचित्तरूपत्वेनानुभवभावतः सिद्धंप्रतिष्ठितम् । किमित्याह-इन्द्रियद्वारानुसार्येव विज्ञानम् ईहादिक्रमेण आविष्टाभिलापम् अहिरहिः'इत्येवमादि । 'आदि'शब्दात् तदन्यैवंविधपरिग्रहस्तदपि सिद्धमित्यर्थः ।।
इहैवोपचयमभिधातुमाह-न चेत्यादि । न च इदंनेन्द्रियनिमित्तम् । किं तर्हि ? २५ इन्द्रियनिमित्तमेव । कुत इत्याह-तद्भावभावित्वानुविधानात्-इन्द्रियभाव
भावित्वानुकरणात् । तदेवाह-अन्धादेरनुत्पत्तेः। 'आदि'शब्दादव्यापतेन्द्रियग्रहः । इन्द्रियादित्यादि । इन्द्रियात् सकाशात् अविकल्पजन्म-अविकल्पोत्पादः तत:-अविकल्पात् इदं-विज्ञानमाविष्टाभिलापम् इति-एवं तदनुत्पत्तिः
अन्धादेविवक्षितविज्ञानानुत्पत्तिः । इति चेत्, एतदाशङ्कयाह-न, आद्यविद्युत्३० सम्पातादौ,'आदि'शब्दात् तदन्यादद्भुतदर्शनग्रहः,तद्भावेऽपि-इन्द्रियादविकल्प
१ समीक्ष्यतां १३७तम पृष्टम् । २ 'इदमिति ततस्तदनु०' इति क-पाठः। ३ सयोगायोगः' इति क-पाठः । ४ प्रेक्ष्यतां १६३तमं पृष्टम् । ५ समीक्ष्यतां १६१तम पृष्ठम् । ६ 'व्यावृत्तेन्द्रिय.'
इतिक-पाठ 1