________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
तद्वचनप्रवृत्तेः । साऽभिप्रायिक्येवेति चेत्, कस्तस्याभिप्राय इति क एतद् वेद ? | यो युक्तिवाधितो न स स इति चेत्, कः पुनरसौ भवतोऽभिप्रेतः ? । विकल्पद्वयायुगपद्भाव इति चेत्, का खल्वन्यथा युक्ति- ५ बाधेति कथनीयम् । तथाऽनुभव एवेति चेत्, सोऽविल्पकद्वयेऽपि तुल्य एवेत्युक्तमं । न च विकल्पयोरसदंशानुवेधतश्चित्ततैव युक्ता ॥
अधिकारः ]
१६३
न च तत्स्वसंविदो वस्तुत्वेनायमनपराधः तत्तद्व्यतिरिक्ततरविकल्पदोषापत्तेः, अन्यथा तदयोगादिति यत्किञ्चिदेतत् ॥
( स्वो० व्या० )
अन्यथाऽपि श्रौतं शब्दार्थं विहायापि तद्वचनप्रवृत्तेः -- आप्तवचनप्रवृत्तेः ब्राह्मणमृतजायाऽमृतवचनवत् । सेत्यादि । सा तद्वचनप्रवृत्तिः अभिप्राधिक्येव अभिप्रायेण निर्वृत्ता आभिप्रायिकी, अभिप्रायस्तथार्थदर्शनम् । इति चेत्, एतदाशङ्कयाह - कस्तस्य - आप्तस्य अभिप्रायः ? | अर्थयाथात्म्यमधिकृत्य किमविकल्पयौगपद्यमेव उत विकल्पयौगपद्यमिति । क एतद् वेद- एतज्जानाति १ । न १५ ह्यसौ पृथग्जनप्रज्ञाविषय इत्यर्थः । य इत्यादि । योऽभिप्रायो युक्तिबाधितःयुक्तिविरहितः न स स इति - नासौ तदभिप्रायः, अर्थयाथात्म्यमधिकृत्येति प्रक्रमः । इति चेत्, एतदाशङ्कयाह - कः पुनरसौ-अभिप्रायो भवतोऽभिप्रेतः ? | विकल्पेत्यादि । विकल्पद्वयायुगपद्भावोऽभिप्रायः 'अस्थानमेतत्' इत्यादि सूत्रे' | इति चेत्, एतदाशङ्कयाह - का खल्वन्यथा विकल्पद्वययुगपद्भावे युक्तिबाधेति २० एतत् कथनीयम् । तथा विकल्पद्वययौगपद्येन अनुभव एव युक्तिबाधा । इति चेत्, एतदाशङ्कयाह-सोऽविकल्पद्वयेऽपि यौगपद्येनाननुभवस्तुल्य एवेत्युक्तं प्राक् 'किञ्च कुतोऽयममीषामत्यन्तभेदे युगपत् सर्वानुभव इत्यवगमः' इत्यादिना सूत्रेण । उपचयमाह न चेत्यादिना । न च विकल्पयोः असदंशानुवेधसः कारणात् अविद्यमानप्रतिभासित्वाभ्युपगमेन चित्ततैव युक्ता, यदसत्प्रतिभासि २५ तदसदेवेति भावनीयम् ॥
पराभिप्रायमाह न चेत्यादिना । न च तत्स्वसंविदः - विकल्पस्य स्वसंविदो वस्तुत्वेन हेतुना अयम् - असदशानुवेधतश्चित्तताऽयोगलक्षणः अनपराध:अदोषो नं च । कुत इत्याह-तत्तद्व्यतिरिक्तेतर बिकल्पदोषापत्तेः-तस्याः
१ 'तथाऽननुभवत एवेति' इति क- पाठः । २ प्रेक्ष्यतां १५८तमं पृष्टम् । ३ ' ततः खसे विदो' इति क- पाठः। ४ 'वचनात्' इति क- पाठः । ५ प्रेक्ष्यतां १६१तमं पृष्ठम् । ६ समीक्ष्यतां १५८तमं पृष्टम् । ७'न वा इति क-पाठः । ८ असदंशेत्यादेराभ्य दोषापत्तेः इति पर्यन्तकोऽधिकः पाठः क-प्रती ।
१०