________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
भ्युपगमादिति । न चाविकल्पके नेति, पञ्चानां प्ररूपणात् । न चात एव न द्वे, छलमात्रत्वात् । न चे हैव न्याय्यो भरः, अस्थानप्रयासत्वात् । ५ न च नास्थानप्रयासः, द्वयोरुपलक्षणत्वात्, अन्यथा यत्र पश्च न तत्र द्वे इत्यतिकौशलमाप्तस्य, त्र्यादीनामपि प्रतिषेधापत्तेः ॥
स्यादेतदलमनेन वारजालेन सविकल्पे नोत्पद्येते इति वचनार्थात्। न, अत्र प्रमाणाभावात्, तद्विवक्षाया अत्यक्षत्वात्, बाधकवचनाभावात्, भावेऽपि तदर्थनिश्चयायोगात्, विनेयानुगुण्यतोऽन्यथाऽपि ( स्वो० व्या० )
१०
१६२
[ तृतीयः
रसादिगतचित्तस्यापि प्रमातुः रूपदर्शनाभ्युपगमात् । अभ्युपगमः च 'अतीताद्यर्थगतविकल्पेनापि रूपादिग्रहणसिद्धेः" इति वचनात् । न चाविकल्पके नेति द्वे चित्ते युगपदुत्पद्येयातामिति । कुत इत्याह- पञ्चानां प्ररूपणात् ' स हि वंशादिवादयितू रूपं पश्यति' इत्यादिना ग्रन्थेनँ । न चात एव१५ पञ्चप्ररूपणादेव न द्वे । कुत इत्याह- छलमात्रत्वात्, यत्र पञ्च तत्र द्वे अपि भवत इति कृत्वा । न चेहेव, प्रक्रमाच्छलादौ, न्याय्यो भरः तथाविधास्थारूपः । कुत इत्याह- अस्थानप्रयासत्वात् । न च नास्थानप्रयास एषः, किन्त्वस्थानप्रयास एव । कुत इत्याह- द्वयोरुपलक्षणत्वात् पञ्चादीनाम् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा - उपलक्षणत्वानभ्युपगमे यत्र पश्च न २० तत्र द्वे इत्यतिकौशलमाप्तस्य इत्युपहासवचनम् । अत एवाह-व्यादीनामपि प्रतिषेधापत्तेः कारणात् ॥
स्यादेतदलमनेन वाग्जालेन - अनन्तरोदितेन, सविकल्पे नोत्पद्येते द्वे चित्ते युगपदिति वचनार्थात् कारणात्, अलमनेन । एतदाशङ्कयाह-न, अत्रवचनार्थे, प्रमाणाभावात् । अभावश्च तद्विवक्षायाः - आप्तविवक्षाया अत्यक्ष२५ त्वात् । अतीत्याक्षम् - इन्द्रियं वर्तत इत्यत्यक्षा तद्भावस्तस्मात्, परोक्षत्वादित्यर्थः । अत्यक्षाऽपि वचनान्तरावसेया भविष्यतीत्याह-बाधकवचनाभावात् । अविकल्पयौगपद्याभिधायि बाधकं वचनम्, अत्र न च तदस्तीति गर्भः । उपचयमाह भावेऽपीत्यादिना । भावेऽपि बाधकवचनस्य " पञ्च बाह्यविज्ञानानि भिक्षवः ! युगपदुत्पद्यन्ते" इत्यादेः । किमित्याह- तदर्थनिश्चयायोगात् अविकल्पज्ञानानां युगपद् ३० भावस्तदर्थस्तन्निश्चयायोगात् । अयोगश्च विनेयानुगुण्यतः -शिष्यानुगुण्येन,
१ 'गमात् । न' इति ग-पाठः । २ प्रेक्ष्यतां १३८तमं पृष्ठम् । ३ १५३ तमपृष्ठगतेन । ४ 'एतदेवाह' इति क-पाठः ।