________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१६१ (मूलम् ) सुखेनैव, तस्यैव तथाभावात् , चित्रखभावत्वात् , बोधान्वयोपपत्तेः, तदावरणविगमात्, क्रमानुभवाविरोधात्, तथामनोवृत्तः। इति न युगपत् सर्वथा सविकल्पाविकल्पज्ञानभावः ॥
परमाप्तवचनविरुद्धश्वायम्, “अस्थानमेतत् यद् द्वे चित्ते युगपदुत्पद्येयाताम्" इति वचनप्रामाण्यात् । अन्यार्थमेतदिति चेत्, कोऽस्यार्थ इति वाच्यम् । भिन्नजातीये नेति चेत्, न, अधिकृतज्ञानयोरपि तत्त्वात्। भिन्नालम्बने नेति चेत्, न, तयोरपि त्वन्मते भावात्। कथं पुनर्भाव इति चेत् , रसादिगतचित्तस्यापि रूपदर्शना- १०
(स्वो० व्या०) एवेत्यभिप्रायः । एतदाशयाह-अन्वयिन्यात्मनि सुखेनैव गम्यते । एतदेवाहतस्यैव-प्रक्रमाद् रूंपादिविज्ञानानुभवितुरात्मनः, तथाभावात्-रसादिज्ञानरूपेण भावात् । तत्तथाभाँवश्व, चित्रसभावत्वात् , अनुवृत्तिव्यावृत्तिस्वभावत्वादित्यर्थः । एतच्च बोधान्वयोपपत्तेः, न व्यावृत्तिमन्तरेणान्वय इत्युपपत्तिः । युक्त्यन्तरमाह- १५ तदावरणविगमात्-क्रमानुभवज्ञानावरणविगमात् । न चायमसिद्ध इत्याहक्रमानुभवाविरोधात्, कारणसाकल्येनेत्यर्थः। अविरोधश्च तथामनोवृत्तेःयुगपज्ज्ञानानुपत्तित्वेन मनोवृत्तेः कारणात् । प्रक्रान्तोपसंहारमाह इति न युगपदित्यादिना । इति-एवं न युगपत् सर्वथा सविकल्पाविकल्पज्ञानभावः ॥ .
उपचयमाह-परमाप्तवचनविरुद्धश्चायं परमाप्तः-भगवान् बुद्धस्तद्वचन- २० विरुद्धश्वायम्-युगपत् सविकल्पाविकल्पज्ञानभावः । एतदेवाह अस्थानमित्यादिना । अस्थानमिति एतद् न न्यायस्थानं यद् द्वे चित्ते-ट्रे ज्ञाने युगपद्-एकदा उत्पद्येयातामिति-एवं वचनप्रामाण्यात् कारणात् , परमाप्तवचनविरुद्ध इति । अन्यार्थमेतत् परमाप्तवचनम् । इति चेत्, एतदाशङ्कयाह-कोऽस्य-परमाप्तवचनस्य अर्थ इति वाच्यम् । भिन्नजातीये न द्वे चित्ते युगपदुत्पद्येयाताम् । २५ इति चेत्, एतदाशझ्याह-न, अधिकृतज्ञानयोरपि-सविकल्पाविकल्पयोः तत्त्वाद् भिन्नजातीयत्वात् । भिन्नालम्बने न द्वे चित्ते युगपदुत्पद्येयाताम् । इति चेत्, एतदाशङ्कयाह-न, तयोरपि-भिन्नालम्बनयोरपि त्वन्मते-त्वत्पक्षे भावात्। कथं पुनर्भावो भिन्नालम्बनयोर्मत्पक्षे ?। इति चेत्, एतदाशङ्याह
१ 'सुखेनैवं' इति ङ-पाठः। २ 'रूपादिज्ञानानु०' इति उ-पाठः। ३ 'भावाञ्च चित्रस्वभावात् अनु०' इति क-पाठः। ४ 'सविकल्पाकल्पज्ञानभावः' इति क-पाठः । ५ 'वृद्धस्तद्वचन' इति घ-पाठः।
अनेकान्त. २१