________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
ङ्कीर्णत्वात्, एवमप्यवगमेऽतिप्रसङ्गात् । तत एव सर्वार्थावगमापत्तेः, तथाऽनुभवाभावांचेत्यनवगताभिधानमेतद् यदुत 'युगपत् सर्वानु५ भवः" इति । चित्रज्ञानवत् परामर्शविकल्पात् तदवगम इति वेत्, न अस्याप्ययोगात् । तथाऽनुभवसिद्धत्वात् कथमयोग इति चेत् स्वकृतान्तप्रकोपात् । कथमत्र तत्प्रकोप इति चेत् यथोक्तं प्रार्क । परामर्श विकल्पोऽन्य एवेति चेत्, न ततस्तदवगम इति यत्किञ्चिदेतत् । क्रमानुभवोऽपि कथं गम्यत इति चेत्, अन्वयिन्यात्मनि ( स्वो० व्या० )
FOMM
रूपस्य ग्राहकज्ञानस्य । अभावश्च तेषामसङ्कीर्णत्वात् ज्ञेयज्ञानानाम् । न च सारूप्याभावे तदवगमो न्याय्य इत्येतदाह - एवमपीत्यादि । एवमपि सारूप्याभावेऽपि ज्ञान - ज्ञेययोः अवगमेऽभ्युपगम्यमानेऽतिप्रसङ्गात् । अतिप्रसङ्गश्च एव - सारूप्यरहिताज्ज्ञानात् सर्वार्थावगमापत्तेः सारूप्याभावा१५ विशेषादित्यर्थः । न 'चेयमित्याह - तथाऽनुभवाभावाच - तत एव सर्वार्थावगमानुभवाभावाच्च । इति - एव मनवगताभिधानमेतत् पूर्वपक्षवचनं यदत युगपत् सर्वानुभव उक्तवत् तद्यौगपद्याज्ञानादिति । चित्रज्ञानवदित्यादि । चित्रज्ञानवदिति निदर्शनम् । यथा चित्रज्ञाने सामर्थ्याच्चित्रावगमः तथा परामर्श - विकल्पात् षड्ज्ञानगतात् तदवगमः, प्रक्रमादमीषां युगपत् सर्वानुभवावगमः । २० इति चेत्, एतदाशङ्कयाह-न, अस्याप्ययोगात् चित्रज्ञानस्य । तथेत्यादि । तथा - चित्रज्ञानत्वेन अनुभवसिद्धत्वात् कारणात् कथमयोगः ? । इति वेत् चित्रज्ञानस्य, एतदाशङ्कयाह-खेत्यादि । स्वकृतान्तप्रकोपात् - स्वसिद्धान्तविरोधादयोगः । कथमत्र - तथाऽनुभवसिद्धौ तत्प्रकोपः - स्वकृतान्तप्रकोपः १ । इति चेत्, एतदाशङ्कयाह-यथोक्तं प्राक् पूर्वं एकस्याने कालम्बनत्वाभावादित्या२५ दिना । परामर्श विकल्पोऽनन्तरप्रस्तुतः अन्य एव तथाविधानुभव निमित्तो न षड्ज्ञानगतः । इति चेत्, एतदाशङ्कयाह-न, ततः- परामर्शविकल्पादन्यस्मात् तदवगमः प्रक्रमादमीषां युगपत् सर्वानुभवावगमः । इति एवं यत्किञ्चिदेतत् - अनन्तरोदितम्, सर्वमेवासारमित्यर्थः । क्रमानुभवोऽपि रूपादिज्ञानगत इति प्रक्रमः, कथं गम्यत इति चेत्, तत् क्रमग्राह्यन्यद् विज्ञानान्तरं न विद्यत
"
૩૦
१६०
[ तृतीयः
१ 'भावात्; इत्यनव०' इति घ-पाठः । २ प्रेक्ष्यतां १५८ पृष्ठम् । ३ 'प्रकोपः' इति कपाठ: 1 ४१५९ पृष्ठे । ५ ' तत एव सर्वार्थावगमानुभवाच्च, इत्येवं' इति ध-पाठः । अतस्तत्र पाठलुप्ततेति भाति । ६ 'चेयमित्थमित्याह' इति ङ-पाठः । ७ १५९ तमे पृष्ठे । ८ : 'तत्, परामर्श • इति घ-पाठः । ९ 'कथं मन्यत इति' इति पाठः ।