________________
१५९
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१५९ (मूलम्) पद्भावात् , प्रतिबन्धविरहात्, इतरेतरालम्बनत्वानुपपत्तेः, युक्तिभिरयोगात्, स्वभावभेदप्रसङ्गात्, तथा च तदयोगादिति । न च अन्यतः, एकस्य तदालम्बनत्वाभावात् , 'तेषां भिन्नजातीयत्वात् । ५ अत एवैकाकरणादतदुत्पन्नात् तत्परिच्छित्यसिद्धेः, तदाकारत्वायोगात्, योगेऽपि मेचकरूपतापत्तेः, तत्सारूप्याभावात् तेषामस
(स्वो० व्या०) दोषान्तरमाह-इतरेतरालम्बनत्वानुपपत्तेः-रूपज्ञानस्य रसान्तरालम्बनत्वानुपपत्तेः । रसादिज्ञानस्य च रूपज्ञानान्तरालम्बनत्वानुपपत्तेः । अनुपपत्तिश्च १० युक्तिभिरयोगात् । युक्त्ययोगश्च स्वभावभेदप्रसङ्गात् । रूपज्ञानं हि रसादिज्ञानान्तरालम्बनमालम्ब्यं च । न चैतदुभयं स्वभावाभेदे इति स्वभावभेदः । यदि नामैवं ततः किमित्याह-तथा च तदयोगादिति। स्वभावभेदे च रूपादिविज्ञानायोगात् ततस्तद्व्यतिरिक्ततरविकल्पद्वारेण, इति न तेभ्य एवामीषां युगपत् सर्वानुभव इत्यवगम इत्येतत् स्थितम् । अन्यतो भविष्यतीत्याशङ्कापनोदायाह-न १५ चान्यत इत्यादि । न चान्यतोऽमीषां युगपत् सर्वानुभव इत्यवगमः । कुत इत्याहएकस्येत्यादि । एकस्य-अन्यस्य तदालम्बनत्वाभावात्-अधिकृतषड्विज्ञानालम्बनत्वाभावात्। अभावश्च तेषां भिन्नजातीयत्वात् षण्णां विज्ञानानाम् । यदि नामैवं ततः किमित्याह-अत एवैकाकरणात् । न हि भिन्नजातीया रूपादय एकं पृथग्जनज्ञानं कुर्वन्ति । न चैतदुत्पन्नं तत्परिच्छेदकमित्येतदाह-अतदुत्पन्नादि-२० त्यादि । तेभ्यः-षड्भ्यो विज्ञानेभ्य उत्पन्नं तदुत्पन्नम्, न तदुत्पन्नमतदुत्पन्नं तस्मात् , एकस्मादिति प्रक्रमः । तत्परिच्छित्यसिद्धेः-षड्ज्ञानपरिच्छित्यसिद्धेः । असिद्धिश्च तदाकारत्वायोगात्-घड्ज्ञानकारत्वायोगात् । उपचयमाह-योगेऽपि कथञ्चित् तदाकारत्वस्य मेचकरूपतापत्तेः अधिकृतग्राहकज्ञानस्य । यदि नामैवं ततः किमित्याह-तत्सारूप्याभावात् । तैः-ज्ञेयज्ञानैः षड्भिः सारूप्याभावात् २५
(विवरणम्) (११-१२) रूपज्ञानं हि रसादिज्ञानान्तरालम्बनमालम्ब्यं चेति । रसादीनि ज्ञानान्तराण्यालम्बन्ते विषयतया यत् तद् रसादिज्ञानान्तरालम्बनम् , आलम्ब्यं च रूपादिज्ञानमेव रसादिज्ञानानाम् ॥
१ 'तथा' इति क-पाठः । २ 'रस्य(१)रसादिज्ञानान्त रा०' इति ङ-पाठः। ३ प्रेक्ष्यतां १५८तम पृष्ठम् । ४ 'न चातदुत्पन्नः' इति ङ-पाठः । ५ षड्ज्ञानकारत्वायोगात्' इति पाठो नास्त्रि घ-पुस्तके।