________________
१५८ अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) भिन्नोपादानत्वे तदत्यन्तभेदेनानुसन्धानायोगात्,अस्य चानुभवसि
द्धत्वात्। एवं च 'क्रमपक्षेऽप्यक्रमस्यैव दर्शनादित्ययुक्तम् , तथाऽननु५ भवात्, एकदैकज्ञानसंवेदनात्, कालसौक्ष्म्यविभ्रमतस्तथाऽप्रतीतेः॥ - किश्च कुतोऽयममीषामत्यन्तभेदे युगपत् सर्वानुभव इत्यवगमः? न तेभ्य एव, प्रत्यर्थनियतत्वात्, इतरेतरानवगमात् , अवगमे वरूपहानिप्रसङ्गात् , ज्ञानान्तरालम्बनत्वापत्तेः, तस्यापि चायोगात्, युग
(स्वो० व्या०) १० भिन्नोपादानत्वे तेषां-घेण्णामपि अत्यन्तभेदेन सन्तानान्तरवत् अनुस. न्धानायोगात् मया रूपं दृष्टं शब्दः श्रुत इत्यनुसन्धानायोगात् । अस्य चअनुसन्धानस्य अनुभवसिद्धृत्वात् । यदि नामैवं ततः किमित्याह-एवं च क्रमपक्षेऽप्यक्रमस्यैव दर्शनादित्ययुक्तं पूर्वपक्षोक्तन् । कुत इत्याह-तथाई
ननुभवात्-अक्रमदर्शनेनाननुभवात् । अननुभवश्च एकदैकज्ञानसंवेदनात् १५ इति कल्पनान्तरबाधिका युक्तिः। अत एवाह-कालसौम्यविभ्रमतः कारणात् , तथाऽप्रतीतेः-एकदैकज्ञानसंवेदनत्वेनाप्रतीतः, विभ्रमाद् युगपत्प्रवृत्तेरित्यर्थः॥
दूषणान्तरमाह किञ्चेत्यादिना । किश्चायमपरो दोषः-कुतोऽयममीषांघण्णां विज्ञानानाम् अत्यन्तभेदे सति युगपत् सर्वानुभव इति-एवम्भूतोऽवगमः-परिच्छेदः । न तेभ्य एव-षड्भ्यो विज्ञानेभ्यः । कुत इत्याह-प्रत्यर्थ२० नियतत्वात् तेषाम् । तथाहि रूपादिविषयत्वेन नियतानि तानि । यदि नामैवं ततः किमित्याह-इतरेतरानवगमात् । न रूपज्ञाने रसादिज्ञानमवगम्यते, नापि तैस्तत् इतीतरेतरानवगमः । इत्थं चैतदङ्गीकर्तव्यमित्याह--अवगमे स्वरूपहानिप्रसङ्गात् । यदैव रूपज्ञानं रसादिज्ञानान्यवैति तदैव तदालम्बनत्वात् तदाकारतया
रूपज्ञानतां परित्यज्यान्यथा तदवगमः, एवं रसादिज्ञानेष्वपि योजनीयमित्यवगमे २५ स्वरूपहानिप्रसङ्गः । एतदेवाह-ज्ञानान्तरालम्बनत्वापत्तेः। न ह्येतदालम्बनं तदवगमयतीति भावः। यदि नामैवं ततः किमित्याह-तस्यापि चायोगात्तस्यापि च-ज्ञानान्तरालम्बनत्वस्यायोगात् । अयोगश्च युगपद्भावात् । रूपरसादिज्ञानानां युगपद्भावे दोषमाह-प्रतिबन्धविरहात्-तादात्म्यतदुत्पत्त्ययोगात् ॥
(विवरणम्) ३० (१५) इति कल्पनान्तरबाधिका युक्तिरिति । कल्पनान्तरस्य शास्त्रान्तरे बुद्धस्य 'दीर्घशष्कुलीभक्षणे षड्ज्ञानोत्पादप्रज्ञापनालक्षणस्य बाधिका-निराकरणकारिणी ॥ . १ प्रेक्ष्यतां १५३तमं पृष्टम् । २ षण्णामत्यन्त.' इति घ-पाठः। ३ प्रेश्यतां १५३ तम पृष्टम् । ४ 'परित्यजति, अन्यथा' इति क-क-पाठः। ५ 'योगेन' इति घ-क-पाठः। ६ 'दीर्घस्य शकुली' इति क-पाठः ।