________________
अधिकारः] खोपझव्याख्यामुनिचन्द्रीयविवरणयुतम्
. (मूलम्) प्रदीर्घस्थूरोपयोगादिविपर्ययात्, अन्यथा तत्रापि तथादर्शनानुपपत्तेः ॥
नचैवं सर्वक्रमोपलम्भनिबन्धनं सविकल्पाविकल्पयोः,अविकल्पे ५ क्षणिकत्वेन जात्यादिभेदेऽपीहादेस्तदितरवैकल्यादिति । या च युगपदोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलब्धिरुता, साs. सिद्धा, द्रव्येन्द्रियविषययोगेऽप्याग्दर्शिनः प्रतिबन्धकसामयेन तावतां विज्ञानानां एकदाऽनुदयात् , तथाऽननुभूतेः, प्रतीत्यभावात् , युक्त्यनुपपत्तेः, उपादानायोगात्, एकोपादानतोऽनेकासिद्धेः, १०
(स्वो० व्या०) प्रत्यवयवम्-अवयवमक्यवं प्रति अलातचक्रसम्बन्धिनं प्रदीर्घस्थूरोपयोगादिविपर्ययात्-अप्रदीर्घसूक्ष्मोपयोगभावात् । एवं च तत्र भवति तन्मिश्रणमित्यर्थः । अन्यथा-एवमनभ्युपगमे तत्रापि-अलातचक्रे तथादर्शनानुपपत्तेः, प्रत्यवयवं प्रदीर्घस्थूरोपयोगभावेन तन्मिश्रणाभावेनेति भावः ॥
प्रकृतयोजनायाह-न चैवं यथाऽधिकृतवर्णयोः सर्व-निरवशेष सावयवत्वादि क्रमोपलम्भनिबन्धनम् । कयोरित्याह-सविकल्पाविकल्पयोः प्रस्तुतविज्ञानयोः। कुत इत्याह-अविकल्पे क्षणिकत्वेन अवग्रहस्य क्षणिकत्वात्। जात्यादिभेदेऽपीहादेः सविकल्पत्वेन, 'आदि'शब्दात् प्रतिभासग्रहः, तदितरवैकल्यात्-प्रदीर्घस्थूरोपयोगरूपवैकल्यादिति । या चेत्यादि । या च युगपद्-२० गोचरीभूतविषयेन्द्रियवतः प्रमातुः अविच्छेदेन सर्वोपलब्धिरुक्ता पूर्वपक्षग्रन्थे साऽसिद्धा । कुत इत्याह-द्रव्येन्द्रियविषययोगेऽपि-निवृत्त्युपकरणरसादिसम्बन्धेऽपि अर्वाग्दर्शिनः प्रमातुः प्रतिबन्धकसामर्थेन हेतुनाकर्मसामर्थ्येन तावतां विज्ञानानां षण्णाम् एकदा-एकस्मिन् काले अनुदयात्अनुत्पादात् । अनुदयश्च तथाऽननुभूते:-एकदा भावेनाननुभूतेः । अननुभू-२५ तिश्च प्रतीत्यभावात् । प्रतीत्यभावश्च युक्त्यनुपपत्तेः। युक्त्यनुपपत्तिश्च उपादानायोगात् । उपादानायोगश्च एकोपादानतोऽनेकासिद्धेः स्वतः परतश्च ।
(विवरणमा (२७) स्वतः परतश्चेति । स्वसामर्थ्यात् सहकारिसामर्थ्याच्च ॥ १ १५३तमे पृछे। २ 'सूक्ष्मापयोगः' इति क-3-पाठः। ३ 'तन्मिश्रण इत्यर्थः' इति रु-पाठः । ४ 'वैकल्पात्' इति हु-पाठः । ५ 'वैकल्पादिति' इति ऊ-पाठः। ६ १५३तमे पृष्ठे ।