________________
१५६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयःः
(मूलम्) पशमयोगात् , दृढानुभवसिद्धेः, अविगानेन तथावेदनात्, कोटि
सङ्गस्याप्रयोजकत्वात्, तद्वीर्यतिरस्करणात्, इत्थमपि तदापादने ५ अतिप्रसङ्गात् नीलपीतज्ञानयोरपि तद्भावेन कचिन्मिश्रणप्रसङ्गात् । इति कथं सकारादाविवाविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं भवेत् ? । सकारादौ तु कालादिभेदेऽपि प्रभूततरधर्मप्रत्यासत्तेर्भवति, तथाऽनुभवादिति । एतेनालातचक्रादिदर्शनं प्रत्युक्तम् , प्रत्यवयवं
(खो ध्या०) १० व्यात्-अमिश्रणस्वाभाव्यात् । एतच्च तथाक्षयोपशमयोगात्-तेन मिश्रणाभाव
ज्ञानर्जनकवत्प्रकारेण क्षयोपशमयोगात् । एतद्योगश्च दृढानुभवसिद्धेः । इयमपि अविगानेन तथावेदनात्-दृढानुभवरूपेण वेदनात् । कोटिसङ्गस्य वर्णज्ञानसम्बन्धिनः अप्रयोजकत्वात् । प्रभूततरासङ्गेन तद्वीर्यतिरस्करणात् तयोः-वर्ण-ज्ञानयोर्वीय-प्रदीर्घस्थूरोपयोगलक्षणं सामर्थ्यं तेन तिरस्करणात् कोटि१५ सङ्गस्य । इत्थमपि-एवमपि कोटिसङ्गस्य तद्वीर्यतिरस्करणेऽपि तदापादने, प्रक्रमात् मिश्रणापादने, अतिप्रसङ्गात् । एनमेवाह-नीलपीतज्ञानयोरपि तद्भावेनकोटिसङ्गभावेन कचित्-चित्रपट्यादौ मिश्रणप्रसङ्गात्। न चैतदेवमिति-एवम् कथं सकारादाविव सजातीयव्यक्तिरूपे अविच्छिन्नम्-एकदैव एकघनी
भूतायतवर्णाकारं दर्शनं भवेत् ? । नैव भवति, निमित्ताभावात् । सकारादौ २० तु सजातीये तथैकावयवित्वेन कालादिभेदेऽपि, 'आदि'शब्दादादिग्रहः, प्रभूततरधर्मप्रत्यासत्तेः तथैकारम्भकत्वेन भवति एकघनीभूतायतवर्णाकारं दर्शनम् । कुत इत्याह-तथाऽनुभवात्-एकघनीभूतायतवर्णाकारदर्शनत्वेनानुभवादिति । एतेन-अनन्तरोदितेन अलातचक्रदर्शनं प्रत्युक्तम् । कथमित्याह
(विवरणम् ) २५ (२०) अजादिग्रह इति। स्वरव्यञ्जनविसर्गभेदग्रहः । तथाहि-सकार-रेफयोः
खराकारौ व्यञ्जनविसर्गौ च प्रतीतरूपावेव ।। - (२३) अलातचक्रदर्शनं प्रत्युक्तमिति । परेण हि यथाऽऽशु भ्रमणवशादलाते चक्रभ्रान्तिः सर्वजनप्रतीत्या सम्पद्यते, एवं सरो रस इत्यादि वर्णेष्वप्याशूच्चारणवशादेकवर्णाकारा भ्रान्तिः किं नोत्पद्यते इति दूषणं शास्त्रान्तरे प्रसञ्जितमास्ते । ३० तश्च दूषणमेव, वैधादिति ॥
१ 'जनकत्वप्रकारेण' इति ङ-पाठः । २ 'सम्बन्धिनः, प्रयोजक०' इति घ-पाठः । ३ 'चित्र. पधादौ' इति क-डा-पाठः । ४ 'जातिग्रहः' इति घ-पाठः। ५ 'कारदर्शनम्' इति घ-पाठः । ६'खरोकारो व्यवन' इति च-पाठः। ७ "विसर्गौ विप्रतीत.' इति क-पाठः ।