________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १५५
(मूलम्) अत्रोच्यते-यत्किञ्चिदेतत् , वर्णयोः सावयत्वेनोक्तदोषानुपपत्तेः, सरादयो हि वर्णाः सावयवत्वेनानेकक्षणलब्धवृत्तयः, तथोपलब्धितः तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः । न क्षणिकज्ञानग्राह्याः,५ तस्य परमाणुव्यतिक्रान्तिमात्रत्वेनात्यन्तसूक्ष्मत्वात् , तदनुभवस्य तत्त्वेनैवार्वाग्दर्शिनाऽनुपलक्षणात् तथाऽप्रतीतेः । इति पूर्ववर्णज्ञानेनोत्तरवर्णज्ञानस्य मिश्रणाभावात् , उभयोः प्रदीर्घस्थूरोपयोगरूपत्वात् , तथाऽऽलम्बनजातिभेदात्, तत्तत्स्वाभाव्यात्, तथाक्षयो
(स्वो० व्या०) अनोच्यते-यत्किञ्चिदेतत्, असारमित्यर्थः । कुत इत्याह-वर्णयोःसरादिलक्षणयोः सावयवत्वेन हेतुना उक्तदोषानुपपत्तेः । एतदेव प्रकटयति सरादयो हीत्यादिना । सरादयो हि वर्णाः सावयवत्वेन जातिभेदतः अनेकक्षणलब्धवृत्तयो वर्तन्ते । कुत इत्याह-तथोपलब्धिता-अनेकक्षणवृत्तित्वेनोपलब्धेः । उपलब्धिश्च तत्तत्वभावत्वात् तयोः-उपलब्धवर्णयोः तत्स्व-१५ भावत्वात्-अनेकक्षणवृत्तिनोपलब्धिस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा तदनुपपत्तेः । एवमनभ्युपगमे वर्णोपलब्ध्ययोगादित्यर्थः । यत एवम् , अतो न क्षणिकज्ञानग्रायाः। कुत इत्याह-तस्य-क्षणस्य परमाणुमात्रव्यतिक्रान्तिमात्रत्वेन-परमाणुव्यतिक्रान्तिकाल एकः क्षणो मत इति न्यायेन अत्यन्तसूक्ष्मत्वात्। तदनुभवस्य-क्षणानुभवस्य तत्त्वेनैव-क्षणानुभवत्वेनैव अर्वाग्-२० दर्शिना प्रमात्राऽनुपलक्षणात् । अनुपलक्षणं च तथा-तत्त्वेनैव अप्रतीतेः। इति-एवं पूर्ववर्णज्ञानेन-सकारादिज्ञानेन उत्तरवर्णज्ञानस्य-रेफादिज्ञानस्य मिश्रणाभावात् कारणात् । कथं सकारादाविवाविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनम् , भवेदिति योगः । मिश्रणाभावश्च उभयोर्ज्ञानयोः सकारादिगोचरयोः प्रदीर्घस्थूरोपयोगरूपत्वात् तथाऽऽलम्बनजातिभेदात् भिन्नजातीयौ २५ सकार-रेफाविति कृत्वा तथा तत्तत्वाभाव्यात् तयोः-वर्णोपयोगयोस्तत्स्वाभा
(विवरणम्) (१९) परमाणुव्यतिक्रान्तिकाल इति । यावता कालेन परमाणुना परमाणुरतिकन्यते स परमाणुव्यतिक्रान्तिकालः ॥
१ 'सरादय इत्यादिना' इति घ-पाठः । २ 'वृत्तित्वेनोपलब्धिः ' इति क-पाठः। ३ 'उभयमा ज्ञानयोः' इति क-पाठः। ४ 'व्यविको( ? )धान्तिकालः' इतिक-पाठः। . .
A