________________
१५४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) पक्षेपि समाश्रीयमाणे पञ्चभिर्विज्ञानैर्व्यवधानेऽपि क्रमभावि सत् तेषामेकैकं विज्ञानमविच्छिन्नमिव प्रतिभाति, तथाऽनुभूतेः ॥ ५ यदैतदेवं तदा कथमैन्यविज्ञानावृत्तौ वर्णयोर्न सकृछुतिरिति ।
अविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं न भवति, न च भवति, तथाप्रतीतेः । इति यत्र क्रमस्तन कालसौम्येऽप्युपलभ्यत एव । न च प्रतीति विहाय पदार्थतत्त्वव्यवस्थापनोपायः, इति यथाप्रत्ययं युगपद् विज्ञानप्रवृत्तिायविदाऽङ्गीकर्तव्या, अन्यथोक्तवत् १० न्यायोच्छेदप्रसङ्गादिति ॥
(खो० व्या) युगपदेवेन्द्रियविषयसम्बन्धसिद्धेः । एवं तत्त्वे व्यवस्थिते सति यावदत्रापियुगपदनुभवेऽपि तात्त्विके अयुगपत्पक्षेऽपि समाश्रीयमाणे किमित्याह
पञ्चभिर्विज्ञानैर्व्यवधानेऽपि सत्यधिकृतन्यायेन क्रमभावि सत्-भवत् १५ तेषां-पण्णां विज्ञानानामेकैकं विज्ञानं-शब्दादिगोचरादि अविच्छिन्नमिवयुगपदिव प्रतिभाति । कुत इत्याह-तथाऽनुभूते:-अविच्छेदनानुभूतेः ॥
प्रकृतयोजनायाह-यदेत्यादि । यदा एतदेवम्-अनन्तरोदितं तदा कथमन्यविज्ञानावृत्ती अपान्तराले वर्णयोः-सरादिरूपयोने सकृछ्रुतिः-न युगपच्छ्रवणमिति ? । एतदेवाह-अविच्छिन्नम्-एकदैव एकघनीभूतश्चासौ आयत२० वर्णश्चेति विग्रहः । तदाकारं दर्शनं न भवति । 'स्सादेतद् भवत्येवेत्याशङ्कानिरासायाह-न च भवति । कुत इत्याह-तथाऽप्रतीतेः। इति-एवं यत्र क्रमस्तत्र कालसौम्येऽप्युपलभ्यत एव यथाऽधिकृतवर्णयोः । न च प्रतीति विहाय-परित्यज्य पदार्थतत्त्वव्यवस्थापनोपायः, इति-एवं यथाप्रत्ययं
यथाऽनुभवं युगपद् विज्ञानप्रवृत्तिः षडपेक्षया प्रस्तुतद्वयापेक्षया वा न्याय२५ विदा प्रमात्राऽङ्गीकर्तव्या, अन्यथा-एवमनभ्युपगमे उक्तवत्-यथोक्तं तथा न्यायोच्छेदप्रसङ्गात्-प्रतीतिबाधेन न्यायानुपपत्तेस्तस्यापि प्रतीतिबीजवादित्यभिप्राय इति ॥
१ 'भावी सन्' इति क-पाठः । २ 'अन्यदपि विज्ञाना.' इति क-पाठः । ३ 'तत्त्वव्यव.' इति घ-पाठः। ४ 'प्रकृतयोजनामाह' इति घ-पाठः। ५ 'स्यादेतन्न भवत्येवे०' इति क-पाठः। ६ "निरासार्थमाह न भवति' इति -पाठः ।....