________________
अधिकारः] खोपज्ञव्याल्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) बोधप्रवृत्तः, तस्य च तत्तद्धेतुभेदतो वैचित्र्यादिति ॥ __ आह-यदि कालसौक्षम्यादत्र क्रमालक्षणमेवं तर्हि 'सर' इत्येवमादिकयोर्वर्णयोरुच्चारणे नितरां कालसौम्यमित्यक्रमग्रहणं स्यात् । ५ तथा च क्रमालक्षणातिभेदो न भवेत् , यथा सरो रस इति । इतश्च न भवेद् युगपद् गोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलब्धौ क्रमपक्षेऽप्यक्रमस्यैव दर्शनात् । स हि वंशादिवादयितू रूपं पश्यति, तदैव ततः शब्दं शृणोति, नीलोत्पलादि गन्धं जिघ्रति, कर्पूरादे रसमाखादयति, आसनादिस्पर्श स्पृशति, चिन्तयति च किञ्चित्, १० इति तत्त्वतोऽस्यानवरतं सर्वपरिच्छित्तिः । एवं यावदत्राप्ययुगपत्
(स्वो० व्या०) प्रवृत्तः, तस्य च-क्षयोपशमस्य तत्तद्धेतुभेदतो द्रव्यादिभेदेन वैचित्र्यात् क्रमो न संलक्ष्यत इति ॥
आह-यदि कालसौम्यादत्र-अधिकृते सविकल्पाविकल्पज्ञानद्वये क्रमा- १५ लक्षणम् , एवं तर्हि 'सरः' इत्येवमादिकयोर्वर्णयोः, 'आदि'शब्दाद् रसादिग्रहः, उच्चारणे नितरां कालसौक्षम्यम् , अव्यवधानेनोच्चारणात् इत्यक्रमग्रहणं सरवर्णयोः स्यात् । तथा चेत्यादि । तथा च सति क्रमालक्षणात् कारणात् श्रुतिभेदः-श्रवर्णभेदो न भवेद् यथा सरो रस इति द्विवर्णविषयः । इतश्च न भवेत् श्रुतिभेदः । कुत इत्याह-युगपदित्यादि । युगपत्-एकदैव २० गोचरीभूतविषयाणि च तानि इन्द्रियाणि चेति विग्रहः, तान्यस्य विद्यन्त इति तद्वान् तस्य अविच्छेदेन-प्रबन्धवृत्त्या सर्वेषाम् , प्रक्रमाद् विषयाणामुपलब्धिः सर्वोपलब्धिः अस्यां सर्वोपलब्धौ सत्याम् । किमित्याह-क्रमपेक्षेऽपि विज्ञानविषयेऽक्रमस्यैव दर्शनात्। एतदेवाकमदर्शनमाह स हीत्यादिना । स हि-युगपगोचरीभूतविषयेन्द्रियवान् वंशादिवादयितू रूपं पश्यति । तदैव ततः-वंशादि-२५ वादयितुः सकाशात् शब्दं शृणोति, तथा नीलोत्पलादि गन्धं जिघ्रति, तथा कर्पूरादे रसमाखादयति; एवमासनादिस्पर्श स्पृशति, चिन्तयति च किश्चिन्मनसा । इति-एवं तत्त्वतोऽस्य-युगपगोचरीभूतविषयेन्द्रियवतः प्रमातुः । किमित्याह-अनवरतं सर्वपरिच्छित्तिः, अनवरतसर्वपरिच्छित्तिरेव,
१'मेदो भवेत् , यथा' इति घ-पाठः। २ 'पक्षेऽपि ज्ञात.' इति अ-पाठः।.....
अनेकान्त. २०